धर्मDharmic Data

मण्डल 5

सूक्त 35

  1. यस्ते॒ साधि॒ष्ठोऽव॑स॒ इन्द्र॒ क्रतु॒ष्टमा भ॑र । अ॒स्मभ्यं॑ चर्षणी॒सहं॒ सस्निं॒ वाजे॑षु दु॒ष्टर॑म् ॥ १ ॥

  2. यदि॑न्द्र ते॒ चत॑स्रो॒ यच्छू॑र॒ सन्ति॑ ति॒स्रः । यद् वा॒ पञ्च॑ क्षिती॒नामव॒स्तत् सु न॒ आ भ॑र ॥ २ ॥

  3. आ तेऽवो॒ वरे॑ण्यं॒ वृष॑न्तमस्य हूमहे । वृष॑जूति॒र्हि ज॑ज्ञि॒ष आ॒भूभि॑रिन्द्र तु॒र्वणि॑: ॥ ३ ॥

  4. वृषा॒ ह्यसि॒ राध॑से जज्ञि॒षे वृष्णि॑ ते॒ शव॑: । स्वक्ष॑त्रं ते धृ॒षन्मन॑: सत्रा॒हमि॑न्द्र॒ पौंस्य॑म् ॥ ४ ॥

  5. त्वं तमि॑न्द्र॒ मर्त्य॑ममित्र॒यन्त॑मद्रिवः । स॒र्व॒र॒था श॑तक्रतो॒ नि या॑हि शवसस्पते ॥ ५ ॥

  6. त्वामिद् वृ॑त्रहन्तम॒ जना॑सो वृ॒क्तब॑र्हिषः । उ॒ग्रं पू॒र्वीषु॑ पू॒र्व्यं हव॑न्ते॒ वाज॑सातये ॥ ६ ॥

  7. अ॒स्माक॑मिन्द्र दु॒ष्टरं॑ पुरो॒यावा॑नमा॒जिषु॑ । स॒यावा॑नं॒ धने॑धने वाज॒यन्त॑मवा॒ रथ॑म् ॥ ७ ॥

  8. अ॒स्माक॑मि॒न्द्रेहि॑ नो॒ रथ॑मवा॒ पुरं॑ध्या । व॒यं श॑विष्ठ॒ वार्यं॑ दि॒वि श्रवो॑ दधीमहि दि॒वि स्तोमं॑ मनामहे ॥ ८ ॥

Reach this point to mark the section finished.

Continue to सूक्त 36

Previous: सूक्त 34