धर्मDharmic Data

मण्डल 5

सूक्त 27

  1. अन॑स्वन्ता॒ सत्प॑तिर्मामहे मे॒ गावा॒ चेति॑ष्ठो॒ असु॑रो म॒घोन॑: । त्रै॒वृ॒ष्णो अ॑ग्ने द॒शभि॑: स॒हस्रै॒र्वैश्वा॑नर॒ त्र्य॑रुणश्चिकेत ॥ १ ॥

  2. यो मे॑ श॒ता च॑ विंश॒तिं च॒ गोनां॒ हरी॑ च यु॒क्ता सु॒धुरा॒ ददा॑ति । वैश्वा॑नर॒ सुष्टु॑तो वावृधा॒नोऽग्ने॒ यच्छ॒ त्र्य॑रुणाय॒ शर्म॑ ॥ २ ॥

  3. ए॒वा ते॑ अग्ने सुम॒तिं च॑का॒नो नवि॑ष्ठाय नव॒मं त्र॒सद॑स्युः । यो मे॒ गिर॑स्तुविजा॒तस्य॑ पू॒र्वीर्यु॒क्तेना॒भि त्र्य॑रुणो गृ॒णाति॑ ॥ ३ ॥

  4. यो म॒ इति॑ प्र॒वोच॒त्यश्व॑मेधाय सू॒रये॑ । दद॑दृ॒चा स॒निं य॒ते दद॑न्मे॒धामृ॑ताय॒ते ॥ ४ ॥

  5. यस्य॑ मा परु॒षाः श॒तमु॑द्ध॒र्षय॑न्त्यु॒क्षण॑: । अश्व॑मेधस्य॒ दाना॒: सोमा॑ इव॒ त्र्या॑शिरः ॥ ५ ॥

  6. इन्द्रा॑ग्नी शत॒दाव्न्यश्व॑मेधे सु॒वीर्य॑म् । क्ष॒त्रं धा॑रयतं बृ॒हद् दि॒वि सूर्य॑मिवा॒जर॑म् ॥ ६ ॥

Reach this point to mark the section finished.

Continue to सूक्त 28

Previous: सूक्त 26