धर्मDharmic Data

मण्डल 5

सूक्त 16

  1. बृ॒हद् वयो॒ हि भा॒नवेऽर्चा॑ दे॒वाया॒ग्नये॑ । यं मि॒त्रं न प्रश॑स्तिभि॒र्मर्ता॑सो दधि॒रे पु॒रः ॥ १ ॥

  2. स हि द्युभि॒र्जना॑नां॒ होता॒ दक्ष॑स्य बा॒ह्वोः । वि ह॒व्यम॒ग्निरा॑नु॒षग्भगो॒ न वार॑मृण्वति ॥ २ ॥

  3. अ॒स्य स्तोमे॑ म॒घोन॑: स॒ख्ये वृ॒द्धशो॑चिषः । विश्वा॒ यस्मि॑न् तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः ॥ ३ ॥

  4. अधा॒ ह्य॑ग्न एषां सु॒वीर्य॑स्य मं॒हना॑ । तमिद् य॒ह्वं न रोद॑सी॒ परि॒ श्रवो॑ बभूवतुः ॥ ४ ॥

  5. नू न॒ एहि॒ वार्य॒मग्ने॑ गृणा॒न आ भ॑र । ये व॒यं ये च॑ सू॒रय॑: स्व॒स्ति धाम॑हे॒ सचो॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥ ५ ॥

Reach this point to mark the section finished.

Continue to सूक्त 17

Previous: सूक्त 15