धर्मDharmic Data

मण्डल 4

सूक्त 46

  1. अग्रं॑ पिबा॒ मधू॑नां सु॒तं वा॑यो॒ दिवि॑ष्टिषु । त्वं हि पू॑र्व॒पा असि॑ ॥ १ ॥

  2. श॒तेना॑ नो अ॒भिष्टि॑भिर्नि॒युत्वाँ॒ इन्द्र॑सारथिः । वायो॑ सु॒तस्य॑ तृम्पतम् ॥ २ ॥

  3. आ वां॑ स॒हस्रं॒ हर॑य॒ इन्द्र॑वायू अ॒भि प्रय॑: । वह॑न्तु॒ सोम॑पीतये ॥ ३ ॥

  4. रथं॒ हिर॑ण्यवन्धुर॒मिन्द्र॑वायू स्वध्व॒रम् । आ हि स्थाथो॑ दिवि॒स्पृश॑म् ॥ ४ ॥

  5. रथे॑न पृथु॒पाज॑सा दा॒श्वांस॒मुप॑ गच्छतम् । इन्द्र॑वायू इ॒हा ग॑तम् ॥ ५ ॥

  6. इन्द्र॑वायू अ॒यं सु॒तस्तं दे॒वेभि॑: स॒जोष॑सा । पिब॑तं दा॒शुषो॑ गृ॒हे ॥ ६ ॥

  7. इ॒ह प्र॒याण॑मस्तु वा॒मिन्द्र॑वायू वि॒मोच॑नम् । इ॒ह वां॒ सोम॑पीतये ॥ ७ ॥

Reach this point to mark the section finished.

Continue to सूक्त 47

Previous: सूक्त 45