अग्ने॑ दि॒वः सू॒नुर॑सि॒ प्रचे॑ता॒स्तना॑ पृथि॒व्या उ॒त वि॒श्ववे॑दाः । ऋध॑ग्दे॒वाँ इ॒ह य॑जा चिकित्वः ॥ १ ॥
अ॒ग्निः स॑नोति वी॒र्या॑णि वि॒द्वान् त्स॒नोति॒ वाज॑म॒मृता॑य॒ भूष॑न् । स नो॑ दे॒वाँ एह व॑हा पुरुक्षो ॥ २ ॥
अ॒ग्निर्द्यावा॑पृथि॒वी वि॒श्वज॑न्ये॒ आ भा॑ति दे॒वी अ॒मृते॒ अमू॑रः । क्षय॒न् वाजै॑: पुरुश्च॒न्द्रो नमो॑भिः ॥ ३ ॥
अग्न॒ इन्द्र॑श्च दा॒शुषो॑ दुरो॒णे सु॒ताव॑तो य॒ज्ञमि॒होप॑ यातम् । अम॑र्धन्ता सोम॒पेया॑य देवा ॥ ४ ॥
अग्ने॑ अ॒पां समि॑ध्यसे दुरो॒णे नित्य॑: सूनो सहसो जातवेदः । स॒धस्था॑नि म॒हय॑मान ऊ॒ती ॥ ५ ॥
मण्डल 3
सूक्त 25
Reach this point to mark the section finished.
Continue to सूक्त 26