धर्मDharmic Data

मण्डल 1

सूक्त 86

  1. मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जन॑: ॥ १ ॥

  2. य॒ज्ञैर्वा॑ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् । मरु॑तः शृणु॒ता हव॑म् ॥ २ ॥

  3. उ॒त वा॒ यस्य॑ वा॒जिनो ऽनु॒ विप्र॒मत॑क्षत । स गन्ता॒ गोम॑ति व्र॒जे ॥ ३ ॥

  4. अ॒स्य वी॒रस्य॑ ब॒र्हिषि॑ सु॒तः सोमो॒ दिवि॑ष्टिषु । उ॒क्थं मद॑श्च शस्यते ॥ ४ ॥

  5. अ॒स्य श्रो॑ष॒न्त्वा भुवो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि । सूरं॑ चित् स॒स्रुषी॒रिष॑: ॥ ५ ॥

  6. पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यम् । अवो॑भिश्चर्षणी॒नाम् ॥ ६ ॥

  7. सु॒भग॒: स प्र॑यज्यवो॒ मरु॑तो अस्तु॒ मर्त्य॑: । यस्य॒ प्रयां॑सि॒ पर्ष॑थ ॥ ७ ॥

  8. श॒श॒मा॒नस्य॑ वा नर॒: स्वेद॑स्य सत्यशवसः । वि॒दा काम॑स्य॒ वेन॑तः ॥ ८ ॥

  9. यू॒यं तत् स॑त्यशवस आ॒विष्क॑र्त महित्व॒ना । विध्य॑ता वि॒द्युता॒ रक्ष॑: ॥ ९ ॥

  10. गूह॑ता॒ गुह्यं॒ तमो॒ वि या॑त॒ विश्व॑म॒त्रिण॑म् । ज्योति॑ष्कर्ता॒ यदु॒श्मसि॑ ॥ १० ॥

Reach this point to mark the section finished.

Continue to सूक्त 87

Previous: सूक्त 85