अ॒भि त्वा॒ गोत॑मा गि॒रा जात॑वेदो॒ विच॑र्षणे । द्यु॒म्नैर॒भि प्र णो॑नुमः ॥ १ ॥
तमु॑ त्वा॒ गोत॑मो गि॒रा रा॒यस्का॑मो दुवस्यति । द्यु॒म्नैर॒भि प्र णो॑नुमः ॥ २ ॥
तमु॑ त्वा वाज॒सात॑ममङ्गिर॒स्वद्ध॑वामहे । द्यु॒म्नैर॒भि प्र णो॑नुमः ॥ ३ ॥
तमु॑ त्वा वृत्र॒हन्त॑मं॒ यो दस्यूँ॑रवधूनु॒षे । द्यु॒म्नैर॒भि प्र णो॑नुमः ॥ ४ ॥
अवो॑चाम॒ रहू॑गणा अ॒ग्नये॒ मधु॑म॒द् वच॑: । द्यु॒म्नैर॒भि प्र णो॑नुमः ॥ ५ ॥
मण्डल 1
सूक्त 78
Reach this point to mark the section finished.
Continue to सूक्त 79