धर्मDharmic Data

मण्डल 1

सूक्त 49

  1. उषो॑ भ॒द्रेभि॒रा ग॑हि दि॒वश्चि॑द् रोच॒नादधि॑ । वह॑न्त्वरु॒णप्स॑व॒ उप॑ त्वा सो॒मिनो॑ गृ॒हम् ॥ १ ॥

  2. सु॒पेश॑सं सु॒खं रथं॒ यम॒ध्यस्था॑ उष॒स्त्वम् । तेना॑ सु॒श्रव॑सं॒ जनं॒ प्रावा॒द्य दु॑हितर्दिवः ॥ २ ॥

  3. वय॑श्चित् ते पत॒त्रिणो॑ द्वि॒पच्चतु॑ष्पदर्जुनि । उष॒: प्रार॑न्नृ॒तूँरनु॑ दि॒वो अन्ते॑भ्य॒स्परि॑ ॥ ३ ॥

  4. व्यु॒च्छन्ती॒ हि र॒श्मिभि॒र्विश्व॑मा॒भासि॑ रोच॒नम् । तां त्वामु॑षर्वसू॒यवो॑ गी॒र्भिः कण्वा॑ अहूषत ॥ ४ ॥

Reach this point to mark the section finished.

Continue to सूक्त 50

Previous: सूक्त 48