चि॒त्रो वो॑ऽस्तु॒ याम॑श्चि॒त्र ऊ॒ती सु॑दानवः । मरु॑तो॒ अहि॑भानवः ॥ १ ॥
आ॒रे सा व॑: सुदानवो॒ मरु॑त ऋञ्ज॒ती शरु॑: । आ॒रे अश्मा॒ यमस्य॑थ ॥ २ ॥
तृ॒ण॒स्क॒न्दस्य॒ नु विश॒: परि॑ वृङ्क्त सुदानवः । ऊ॒र्ध्वान् नः॑ कर्त जी॒वसे॑ ॥ ३ ॥
मण्डल 1
सूक्त 172
Reach this point to mark the section finished.
Continue to सूक्त 173