धर्मDharmic Data

मण्डल 1

सूक्त 170

  1. न नू॒नमस्ति॒ नो श्वः कस्तद् वे॑द॒ यदद्भु॑तम् । अ॒न्यस्य॑ चि॒त्तम॒भि सं॑च॒रेण्य॑मु॒ताधी॑तं॒ वि न॑श्यति ॥ १ ॥

  2. किं न॑ इन्द्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ । तेभि॑: कल्पस्व साधु॒या मा न॑: स॒मर॑णे वधीः ॥ २ ॥

  3. किं नो॑ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे । वि॒द्मा हि ते॒ यथा॒ मनो॒ ऽस्मभ्य॒मिन्न दि॑त्ससि ॥ ३ ॥

  4. अरं॑ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि॑न्धतां पु॒रः । तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते॑ तनवावहै ॥ ४ ॥

  5. त्वमी॑शिषे वसुपते॒ वसू॑नां॒ त्वं मि॒त्राणां॑ मित्रपते॒ धेष्ठ॑: । इन्द्र॒ त्वं म॒रुद्भि॒: सं व॑द॒स्वाध॒ प्राशा॑न ऋतु॒था ह॒वींषि॑ ॥ ५ ॥

Reach this point to mark the section finished.

Continue to सूक्त 171

Previous: सूक्त 169