धर्मDharmic Data

युद्धकाण्ड

सर्ग 84

  1. राममाश्वासयाने तु लक्ष्मणे भ्रातृवत्सले । निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छद्विभीषणः ॥ 1 ॥

    As Lakshmana was comforting his affectionate brother, Vibheeshana came to Rama assigning the troops to reach their respective places.

    Word by word

    भ्रातृवत्सले affectionate brother, लक्ष्मणे by Lakshmana, रामम् Rama आश्वासमाने comforting, विभीषणः Vibheeshana, गुल्मान् troops, स्वस्थाने to their respective places, निक्षिप्य assigning, तत्र there, आगच्छत् came

  2. नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतः । नीलाञ्जनचयाकारैर्मातङ्गैरिव यूथपः ॥ 2 ॥

    Accompanied by the four ministers surrounded by four ministers resembling leaders of elephants, who looked dark like collyrium, Vibheeshana came to highsouled Rama. He witnessed Vanaras whose eyes were filled with tears.

    Word by word

    नानाप्रहरणैः different kinds of weapons, नीलाञ्जनचयाकारैः dark in colour like collyrium, यूथप: troops, मातङ्गैःइव like elephants, चतुर्भिः four, सचिवै ministers:, वृतः surrounded, सः he, शोकलालसम् given to grief, महात्मानम् great soul, राघवम् Raghava, अभिगम्य reached, बाष्पपर्याकुलेक्षणान् eyes full of tears, वानरांश्चापि Vanaras also, ददृशे witnessed

  3. सो ऽभिगम्य महात्मानं राघवं शोकलालसम् । वानरांश्चैव ददृशे बाष्पपर्याकुलेक्षणान् ॥ 3 ॥

  4. राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम् । ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम् ॥ 4 ॥

    He (Vibheeshana) saw the great soul, the delight of the Ikshvaku race deluded, distressed, and lying on the lap of Lakshmana.

    Word by word

    महात्मानम् great soul, इक्ष्वाकुलनन्दनम् delight of Ikshvaku race, मोहम् deluded, आपन्नम् distressed, लक्ष्मणस्य Lakshmana's, अङ्कम् lap, आश्रितम् lying, राघवं च Raghava, ददर्श saw

  5. व्रीडितं शोकसन्तप्तं दृष्ट्वा रामं विभीषणः । अन्तर्दुःखेन दीनात्मा किमेतदिति सो ऽब्रवीत् ॥ 5 ॥

    Vibheeshana was pained to see Rama immersed in grief, depressed in spirit, and asked for What is all this grief for?

    Word by word

    सःविभीषणः that Vibheeshana, व्रीडितम् pained, शोकसन्तप्तम् immersed in grief, रामम् Rama, दृष्टवाseeing, अन्तःcondition, दुःखेन for grief, दीनात्मा depressed, एतत् all this, किम् for what, इति thus, अब्रवीत् spoke

  6. विभीषणमुखं दृष्ट्वा सुग्रीवं तांश्च वानरान् । लक्ष्मणोवाच मन्दार्थमिदं बाष्पपरिप्लुतः ॥ 6 ॥

    Lakshmana looking at Sugriva's face and also at the Vanaras, his eyes bathed in tears spoke in a dull tone.

    Word by word

    लक्ष्मणः Lakshmana, विभीषणमुखम् Vibheeshana's face, सुग्रीवम् Sugriva, तान् those, वानरांश्च Vanaras also, दृष्टवा seeing, बाष्पपरिप्लुतः bathed in tears, मन्दार्थम् dull tone, इदम् thus, उवाच spoke

  7. हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः । हनुमद्वचनात् सौम्य ततो मोहमुपागतः ॥ 7 ॥

    "O Noble one! On hearing Hanuman that Sita is killed by Indrajith, Rama is deluded', said Lakshmana to Vibheeshana."

    Word by word

    सौम्य noble, राघवः Raghava, हनुमद्वचनात् Hanuman's words, सीता Sita, इन्द्रजिता by Indrajith, हता killed, इति this, श्रुत्यैव on hearing, ततः then, मोहम् deluded, उपागतः became

  8. कथयन्तं तु सौमित्रिं सन्निवार्य विभीषणः ॥ 8 ॥

    Vibheeshana spoke these meaningful words to Rama, who was unconscious, restraining Saumithri from speaking.

    Word by word

    विभीषणःVibheeshana, कथयन्तम् started telling, सौमित्रिम् Saumithri, सन्निवार्य restraining, विसंज्ञम् unconscious, रामम् to Rama, पुष्कलार्थम् full of meaning, इदंवाक्यम् this, अब्रवीत् spoke

  9. मनुजेन्द्रार्तरूपेण यदुक्तं च हनूमता । तदयुक्तमहं मन्ये सागरस्येव शोषणम् ॥ 9 ॥

    "I think that what has been spoken by Hanuman as truth (that Sita has been killed) is like drying up an ocean."

    Word by word

    मनुजेन्द्र Lord of humans, आर्थरूपेण thinking to be true, हनूमता from Hanuman, सु, यत् that which, उक्त spoken, तत् those, सागरस्य ocean's, शोषणम् इव drying up, अयुक्तम् not possible, अहम् I, मन्ये think

  10. अभिप्रायं तु जानामि रावणस्य दुरात्मनः । सीतां प्रति महाबाहो न च घातं करिष्यति ॥ 10 ॥

    "O mighty armed Rama! with reference to Sita, you do not know Ravana's opinion. He will never kill Sita."

    Word by word

    महाबाहो mighty armed, सीतांप्रति with reference to Sita, दुरात्मनः evil minded, रावणस्य Ravana's, अभिप्रायम् opinion, जानामि do not know, घातम् killing, न करिष्यति will never do

  11. याच्यमानस्तु बहुशो मया हितचिकीर्षुणा । वैदेहीमुत्सृजस्वेति न च तत् कृतवान् वचः ॥ 11 ॥

  12. नैव साम्ना न दानेन न भेदेन कुतो युधा । सा द्रुष्टुमपि शक्येत नैव चान्येन केनचित् ॥ 12 ॥

  13. वानरान् मोहयित्वा तु प्रतियातः स राक्षसः । चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति ॥ 13 ॥

  14. हुतवानुपयातो हि देवैरपि सवासवैः । दुराधर्षो भवत्येव सङ्ग्रामे रावणात्मजः ॥ 14 ॥

  15. तेन मोहयता नूनमेषा माया प्रयोजिता । विघ्नमन्विच्छता तत्र वानराणां पराक्रमे ॥ 15 ॥

  16. ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते । त्यजेमं नरशार्दूल मिथ्यासन्तापमागतम् । सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम् ॥ 16 ॥

  17. इह त्वं स्वस्थहृदयस्तिष्ठ सत्त्वसमुच्छ्रितः । लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः ॥ 17 ॥

  18. एष तं नरशार्दूलो रावणिं निशितैः शरैः । त्याजयिष्यति तत् कर्म ततो वध्यो भविष्यति ॥ 18 ॥

  19. तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः । पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम् ॥ 19 ॥

  20. तं सन्दिश महावाहो लक्ष्मणं शुभलक्षणम् । राक्षसस्य विनाशाय वज्रं वज्रधरो यथा ॥ 20 ॥

  21. मनुजवर न कालविप्रकर्षो रिपुनिधनं प्रति यत् क्षमो ऽद्य कर्तुम् । त्वमति सृज रिपोर्वधाय वाणीममररिपोर्मथने यथा महेन्द्रः ॥ 21 ॥

  22. समाप्तकर्मा हि स राक्षसाधिपो भवत्यदृस्यः समरे सुरासुरैः । युयुत्सता तेन समाप्तकर्मणा भवेत् सुराणामपि संशयो महान् ॥ 22 ॥

  23. इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुरशीतितमः सर्गः ॥ ८४ ॥ 23 ॥

Reach this point to mark the section finished.

Continue to सर्ग 85

Previous: सर्ग 83