धर्मDharmic Data

किष्किंधाकाण्ड

सर्ग 48

  1. सह तार अंगदाभ्याम् तु सहसा हनुमान् कपिः । सुग्रीवेण यथा उद्दिष्टम् तम् देशम् उपचक्रमे ॥ 1 ॥

    Hanuman, the monkey accompanied by Tara and Angada proceeded as instructed by Sugriva in the (South) direction.

    Word by word

    कपिः monkey, हनुमान् Hanuman, ताराङ्गदाभ्यां सह along with Tara and Angada, गत्वा सा going, सुग्रीवेण by Sugriva, यथोद्दिष्टम् as instructed, तम् them, देशम् place, उपप्रचक्रमे started.

  2. स तु दूरम् उपागम्य सर्वैः तैः कपि सत्तमैः । ततो विचित्य विन्ध्यस्य गुहाः च गहनानि च ॥ 2 ॥

    He went a long distance with other heroic monkeys, searching in the impenetrable caves of Vindhya mountain. They combed interior places, mountain peaks, fortresses surrounded by rivers, lakes, extensive groves of trees, bushes and thickets.

    Word by word

    सः that, सर्वैः तैः they all, कपिसत्तमैः with heroic monkeys, दूरम् a distant place, उपागम्य having gone, ततः then, विन्ध्यस्य Vindhya's, गुहाश्च caves, गहनानि च impenetrable, विचिनोति searched, पर्वताग्रान् on the peaks of mountains, नदीदुर्गान् inaccessible fortress surrounded by rivers, सरांसि tanks, विपुलान्द्रुमान् huge trees, वृक्षषण्डांश्च collection of trees, विविधान् many, पर्वतान् mountains, घनपादपान् dense trees.

  3. पर्वताग्र नदी दुर्गान् सरांसि विपुल द्रुमान् । वृक्ष खण्डान् च विविधान् पर्वतान् वन पादपान् ॥ 3 ॥

    He went a long distance with other heroic monkeys, searching in the impenetrable caves of Vindhya mountain. They combed interior places, mountain peaks, fortresses surrounded by rivers, lakes, extensive groves of trees, bushes and thickets.

    Word by word

    सः that, सर्वैः तैः they all, कपिसत्तमैः with heroic monkeys, दूरम् a distant place, उपागम्य having gone, ततः then, विन्ध्यस्य Vindhya's, गुहाश्च caves, गहनानि च impenetrable, विचिनोति searched, पर्वताग्रान् on the peaks of mountains, नदीदुर्गान् inaccessible fortress surrounded by rivers, सरांसि tanks, विपुलान्द्रुमान् huge trees, वृक्षषण्डांश्च collection of trees, विविधान् many, पर्वतान् mountains, घनपादपान् dense trees.

  4. अन्वेषमाणाः ते सर्वे वानराः सर्वतो दिशम् । न सीताम् ददृशुर् वीरा मैथिलीम् जनक आत्मजाम् ॥ 4 ॥

    The heroic monkeys went searching all over the direction for the daughter of Janaka, but in vain.

    Word by word

    वीराः heroes, ते वानराः the vanaras, सर्वे all, सर्वतो दिशम् all over in that direction, अन्वेषमाणाः went searching, मैथिलीम् for Maithili, जनकात्मजाम् Janaka's daughter, सीताम् Sita, न ददृशुः they did not see.

  5. ते भक्षयन्तो मूलानि फलानि विविधानि अपि । अन्वेषमाणा दुर्धर्षा न्यवसन् तत्र तत्र ह ॥ 5 ॥

    The unassailable monkeys ate roots and fruits and halted here and there at different places searching for Sita.

    Word by word

    दुर्धर्षाः unassailable, ते those, विविधानि many, मूलानि roots, फलान्यपि and also fruits, भक्षयन्तः eating, अन्वेषमाणाः searching, तत्र तत्र here and there, न्यवसन् dwelt.

  6. स तु देशो दुर्अन्वेषो गुहा गहनवान् महान् । निर्जलम् निर्जनम् शून्यम् गहनम् घोर दर्शनम् ॥ 6 ॥

    They searched in dense forests, interior locations impassable, desolate and terrific, without water, and people.

    Word by word

    गुहागहनवान् a location with impenetrable caves, महान् great, सः देशः that place, दुरन्वेषः is difficult to search, निर्जलम् with no water, निर्जनम् no people, शून्यम् desolate, गहनम् impassable, रोमहर्षणम् terrific.

  7. ता दृशानि अन्या अपि अरण्यानि विचित्य भृइश पीडिताः । स देशः च दुर्अन्वेष्यो गुहा गहनवान् महान् ॥ 7 ॥

  8. त्यक्त्वा तु तम् ततः देशम् सर्वे वै हरि यूथपाः । देशम् अन्यम् दुराधर्षम् विविशुः च अकुतो भयाः ॥ 8 ॥

  9. यत्र वन्ध्य फला वृक्षा विपुष्पाः पर्ण वर्जिताः । निस्तोयाः सरितो यत्र मूलम् यत्र सुदुर्लभम् ॥ 9 ॥

    As they marched forward, they entered a location where there were trees devoid of leaves, flowers and fruits and rivers without water and a place where it was difficult to get roots (for food).

    Word by word

    यत्र where, वृक्षाः trees, वन्ध्यफलाः without fruits, विपुष्पाः without flowers, पर्णवर्जिताः without leaves, यत्र where, सरितः rivers, निस्तोयाः without water, यत्र there, मूलम् root, सुदुर्लभम् very difficult to get.

  10. न सन्ति महिषा यत्र न मृगा न च हस्तिनः । शार्दूलाः पक्षिणो वा अपि ये च अन्ये वन गोचराः ॥ 10 ॥

    There were no buffaloes, no deer, no elephants, tigers or even birds and other wild animals.

    Word by word

    यत्र where, महिषाः buffaloes, न सन्ति not found, मृगाः deer, न not, हस्तिनः elephants, शार्दूलाः tigers, पक्षिणो वापि and even birds, वनगोचराः forest beasts, ये those, अन्ये च and other, न not,

  11. न च अत्र वृक्षा न ओषध्यो न वल्ल्यो न अपि वीरुधः । स्निग्ध पत्राः स्थले यत्र पद्मिन्यः फुल्ल पंकजाः ॥ 11 ॥

    There were no medicinal plants, no vines or creepers spreading on the ground.The lotus creepers on the dry ground had shining leaves,beautiful and fragrant blooms devoid of bees.

    Word by word

    यत्र where, वृक्षाः trees, न not, ओषध्यः medicinal plants, न not, वल्ल्यः vines, न not, वीरुधः creepers spreading on ground, न not, यत्र where, स्निग्धपत्राः shining leaves, स्थले on the dry ground, पद्मिन्यः lotus creepers, फुल्लपङ्कजाः in full bloom, प्रेक्षणीयाः beautiful to look, सुगन्धाश्च fragrant ones, भ्रमरैश्चापिवर्जिताः devoid of bees.

  12. प्रेक्षणीयाः सुगन्धाः च भ्रमरैः च वर्जिताः । कण्डुर् नाम महाभागः सत्य वादी तपो धनः ॥ 12 ॥

  13. महर्षिः परम अमर्षी नियमैः दुष्प्रधर्षणः । तस्य तस्मिन् वने पुत्रो बालको दश वार्षिकः ॥ 13 ॥

  14. प्रणष्टो जीवित अन्ताय क्रुद्धः तेन महामुनिः । तेन धर्माअत्मना शप्तम् कृत्स्नम् तत्र महद् वनम् ॥ 14 ॥

  15. अशरण्यम् दुराधर्षम् मृग पक्षि विवर्जितम् । तस्य ते कानन अन्तान् तु गिरीणाम् कन्दराणि च ॥ 15 ॥

  16. प्रभवाणि नदीनाम् च विचिन्वन्ति समाहिताः । तत्र च अपि महात्मानो न अपश्यन् जनक आत्मजाम् ॥ 16 ॥

  17. हर्तारम् रावणम् वा अपि सुग्रीव प्रिय कारिणः । ते प्रविश्य तु तम् भीमम् लता गुल्म समावृतम् ॥ 17 ॥

  18. ददृशुः भीम कर्माणम् असुरम् सुर निर्भयम् । तम् दृष्ट्वा वनरा घोरम् स्थितम् शैलम् इव असुरम् ॥ 18 ॥

  19. गाढम् परिहिताः सर्वे दृष्ट्वा तम् पर्वत उपमम् । सो अपि तान् वानरान् सर्वान् नष्टाः स्थ इति अब्रवीत् बली ॥ 19 ॥

  20. अभ्यधावत सम्क्रुद्धो मुष्टिम् उद्यम्य संगतम् । तम् आपतन्तम् सहसा वालि पुत्रो अंगदः तदा ॥ 20 ॥

  21. रावणो अयम् इति ज्ञात्वा तलेन अभिजघान ह । स वालि पुत्र अभिहतो वक्त्रात् शोणितम् उद्वमन् ॥ 21 ॥

  22. असुरो न्यपतत् भूमौ पर्यस्त इव पर्वतः । ते तु तस्मिन् निर् उच्छ्वासे वानरा जित काशिनः ॥ 22 ॥

  23. व्यचिन्वन् प्रायशः तत्र सर्वम् तत् गिरि गह्वरम् । विचितम् तु ततः सर्वम् सर्वे ते कानन ओकसः ॥ 23 ॥

  24. अन्यत् एव अपरम् घोरम् विविशुर् गिरि गह्वरम् । ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः । एकांते वृक्ष मूले तु निषेदुर् दीन मानसाः ॥ 24 ॥

Reach this point to mark the section finished.

Continue to सर्ग 49

Previous: सर्ग 47