धर्मDharmic Data

किष्किंधाकाण्ड

सर्ग 45

  1. सर्वाः च आहूय सुग्रीवः प्लवगान् प्लवगर्षभः । समस्तान् च अब्रवीत् राजा राम कार्यार्थ सिद्धये ॥ 1 ॥

    Summoning the entire body of vanaras, Sugriva, the bull among monkeys, said, 'Go to the places I have described and look for Sita in order to fulfil Rama's objective'.

    Word by word

    प्लवगर्षभः bull of among monkeys, भूयः further, सुग्रीवः Sugriva, सर्वान् all, प्लवगान् vanaras, आहूय called, रामकार्यर्थसिद्धये for fulfilling the objective of Rama, समस्तान् all of them, अब्रवीत् addressed, मया by me, यत् whatever, परिकीर्तितम् described, एवम् in the same way, एतत् thus, विचेतव्यम् you should search.

  2. एवम् एतत् विचेतव्यम् भवद्भिः वानरोत्तमैः । तत् उग्र शासनम् भर्तुर् विज्ञाय हरि पुंगवाः ॥ 2 ॥

  3. शलभा इव संछाद्य मेदिनीम् संप्रतस्थिरे । रामः प्रस्रवणे तस्मिन् न्यवसत् सह लक्ष्मणः ॥ 3 ॥

  4. प्रतीक्षमाणः तम् मासम् यः सीता अधिगमे कृतः । उत्तराम् तु दिशम् रम्याम् गिरि राज समावृताम् ॥ 4 ॥

  5. प्रतस्थे सहसा वीरो हरिः शतबलिः तदा । पूर्वाम् दिशम् प्रति ययौ विनतो हरि यूथपः ॥ 5 ॥

  6. तारा अंगदादि सहितः प्लवगः पवनात्मजः । अगस्त्य चरिताम् आशाम् दक्षिणाम् हरि यूथपः ॥ 6 ॥

    Vinata, leader of the monkeys, set out for the eastern direction.The troop leader, son of the Windgod along with Angada and Tara left for the south inhabited by Agastya.

    Word by word

    हरियूथपः leader of monkeys, विनतः Vinata, पूर्वां दिशं प्रति towards the east, ययौ started, हरियूथपः leader of the monkeys, मारुतात्मजः son of the Windgod, प्लवगः monkey, ताराङ्गदादिसहितः along with Tara and Angada, अगस्त्याचरिताम् inhabited by Agastya, दक्षिणाम् आशाम् to the southern quarter.

  7. पश्चिमाम् तु दिशम् घोराम् सुषेणः प्लवगेश्वरः । प्रतस्थे हरि शार्दूलो दिशम् वरुण पालिताम् ॥ 7 ॥

    'The chieftain Sushena, tiger among the monkeys, started quickly for the fearsome western direction ruled by Varuna.

    Word by word

    प्लवगेश्वरः chieftain of monkeys, हरिशार्दूलः tiger among monkeys, सुषेणः Sushena, वरुणपालिताम् ruled by Varuna, दिशम् side, भृशम् quickly, घोराम् fearsome, पश्चिमां दिशम् western side, प्रतस्थे started.

  8. ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् । कपि सेना पतीन् वीरो मुमोद सुखितः सुखम् ॥ 8 ॥

    Sugriva, chief of the army of monkeys, having sent the leaders to all quarters felt relieved and rejoiced.

    Word by word

    ततः then, मुख्यान् of chieftans, राजा king, कपिसेनापतीन् chief of the army of monkeys, यथातथम् properly, सर्वाःदिशः all quarters, चोदयित्वा having sent, सुखितः relieved, सुखम् मुमोद rejoiced.

  9. एवम् संचोदिताः सर्वे राज्ञा वानर यूथपाः । स्वाम् स्वाम् दिशम् अभिप्रेत्य त्वरिताः संप्रतस्थिरे ॥ 9 ॥

    Addressed thus by the king, all the monkeys departed quickly from there for their respective directions with all enthusiasm.

    Word by word

    राज्ञा by the king, एवम् in that way, सम्बोधिताः having been addressed, सर्वे all, वानरयूथपाः leaders of the monkeys, स्वां स्वाम् in their respective, दिशम् direction, अभिप्रेत्य bound, त्वरिताः quickly, सम्प्रतस्थिरे departed from there.

  10. नदन्तः च उन्नदन्तः च गर्जन्तः च प्लवंगमाः । क्ष्वेलन्तो धावमानाः च विनदन्तो महाबलाः ॥ 10 ॥

    The powerful monkeys went gallopping and chattering, leaping and screaming.

    Word by word

    महाबलाः mighty, प्लवङ्गमाः monkeys, नदन्तः making noise, उन्नदन्तश्च loudly, गर्जन्तश्च chattering, क्ष्वेलन्तः leaping, विनदन्तः screaming, धावमानाश्च gallopping.

  11. एवम् संचोदिताः सर्वे राज्ञा वानर यूथपाः । आनयिष्यामहे सीताम् हनिष्यामः च रावणम् ॥ 11 ॥

    Thus addressed by the king, the leaders of the monkeys shouted, 'We will kill Ravana and get back Sita'.

    Word by word

    राज्ञा by the king, एवम् in that way, सम्बोदिता:having addressed, सर्वे all, वानरयूथपाः the leaders of monkeys, सीताम् Sita, आनयिष्यामहे we will get, रावणम् Ravana, हनिष्यामश्च we will kill.

  12. अहम् एको वधिष्यामि प्राप्तम् रावणम् आहवे । ततः च उन्मथ्य सहसा हरिष्ये जनक आत्मजाम् ॥ 12 ॥

    'I shall kill Ravana singlehanded in war and quickly get back Janaka's daughter churning (the enemy army).' (said one)

    Word by word

    अहम् I am, एकः alone, आहवे in a war, प्राप्तम् faced, रावणम् Ravana, हनिष्यामि I will kill, ततश्च there after, उन्मथ्य after churning, सहसा at once, जनकात्मजाम् Janaka's daughter, आहरिष्ये I will get.

  13. वेपमानम् श्रमेण अद्य भवद्भिः स्थीयताम् इति । एक एव आहरिष्यामि पातालात् अपि जानकीम् ॥ 13 ॥

    'I will alone restore Sita, exhausted and trembling (in fear), even from the nether world. Wait here' (said another leader).

    Word by word

    श्रमेण with exhaustion, वेपमानाम् trembling, जानकीम् Sita, पातालादपि even from the nether most world, एक एव I alone, आहरिष्यामि I will get, अद्य now, भवद्भिः you, स्थीयताम् wait, इति thus.

  14. विधमिष्यामि अहम् वृक्षान् दारयिष्यामि अहम् गिरीन् । धरणीम् दारयिष्यामि क्षोभयिष्यामि सागरान् ॥ 14 ॥

    'I will smash trees, shatter mountains, cleave the earth and churn up the seas'. (said a another).

    Word by word

    अहम् I, वृक्षान् trees, वधिष्यामि will smash, गिरीन् mountains, दारयिष्यामि I will cleave, धरणीम् earth, दारयिष्यामि break open, सागरान् seas, क्षोभयिष्यामि I will churn.

  15. अहम् योजन संख्यायाः प्लविता न अत्र संशयः । शतम् योजन संख्यायाः शतम् समधिकम् हि अहम् ॥ 15 ॥

    'I can doubtless cross a distance of a hundred yojanas' said one. Another said,' I can leap a hundred yojanas more'.

    Word by word

    अहम् I, योजनसङ्ख्यायाः शतम् cross a hundred yojanas, प्लविता leap, अहम् I, शतयोजनसङ्ख्यायाः cross a distance of hundred yojanas, समधिकम् more, अत्र here, संशयः doubt, न no.

  16. भू तले सागरे वा अपि शैलेषु च वनेषु च । पातालस्य अपि वा मध्ये न मम आच्छिद्यते गतिः ॥ 16 ॥

  17. इति एकैकः तदा तत्र वानरा बल दर्पिताः । ऊचुः च वचनम् तस्य हरि राजस्य सन्निधौ ॥ 17 ॥

Reach this point to mark the section finished.

Continue to सर्ग 46

Previous: सर्ग 44