धर्मDharmic Data

किष्किंधाकाण्ड

सर्ग 38

  1. प्रतिगृह्य च तत् सर्वम् उपानयम् उपाहृतम् । वानरान् सान्त्वयित्वा च सर्वान् एव व्यसर्जयत् ॥ 1 ॥

    On receiving all the gifts presented by the monkeys, Sugriva permitted them to go happy.

    Word by word

    उपाहृतम् presented, तत् that, सर्वम् all that, उपायनम् gifts, प्रतिगृह्य after taking, सान्त्वयित्वा च pleasing them, सर्वान् एव all of them, वानरान् monkeys, व्यसर्जयत् permitted to go.

  2. विसर्जयित्वा स हरीन् सहस्रान् तान् कृत कर्मणः । मेने कृतार्थम् आत्मानम् राघवम् च महाबलम् ॥ 2 ॥

    The monkey heroes sent by Sugriva performed the task assigned to them and felt powerful Rama's task has been achieved (a successful beginning has been made).

    Word by word

    सः he, कृतकर्मणः those who have done the task asigned, शूरान् तान् those heroes, हरीन् the monkeys, विसर्जयित्वा after sending away, आत्मानम् himself, महाबलम् powerful, राघवं च and Rama, कृतार्थम् achieved, मेने felt.

  3. स लक्ष्मणो भीम बलम् सर्व वानर सत्तमम् । अब्रवीत् प्रश्रितम् वाक्यम् सुग्रीवम् संप्रहर्षयन् ॥ 3 ॥

    Cheering Sugriva, the foremost among the monkeys, the mighty Lakshmana said in a humble way: 'O goodnatured Sugriva if you would like to come to Rama let us depart from Kishkinda.

    Word by word

    सः लक्ष्मणः that Lakshmana, भीमबलम् of terrific strength, सर्ववानरसत्तमम् foremost among the monkeys, सुग्रीवम् Sugriva, सम्प्रहर्षयन् cheering, प्रश्रितम् humbly, वाक्यम् words, अब्रवीत् said, सौम्य O goodnatured, ते to you, रोचते यदि if it pleases, किष्किन्धायाः from Kishkinda, विनिष्क्राम depart.

  4. किष्किंधाया विनिष्क्राम यदि ते सौम्य रोचते । तस्य तत् वचनम् श्रुत्वा लक्ष्मणस्य सुभाषितम् ॥ 4 ॥

  5. सुग्रीवः परम प्रीतो वाक्यम् एतत् उवाच ह । एवम् भवतु गच्छामः स्थेयम् त्वत् शासने मया ॥ 5 ॥

    Hearing the gentle words of Lakshmana, spoken lovingly in that manner and asking him to come along with him, Sugriva was highly pleased.He agreed to go with him and said, 'As you please. I abide by your command'.

    Word by word

    सुग्रीवः Sugriva, सुभाषितम् gentle words, तस्यलक्ष्मणस्य of Lakshmana, तत् वचनम् those words, श्रुत्वा on hearing, परमप्रीतः highly pleased, एतत् this, वाक्यम् word, उवाच ह spoke, एवम् in that manner, भवतु let it be so, गच्छावः we both may go, मया to me, त्वच्छासने at your command, स्थेयम् I should stand.

  6. तम् एवम् उक्त्वा सुग्रीवो लक्ष्मणम् शुभ लक्षणम् । विसर्जयामास तदा तारा अद्याः च एव योषितः ॥ 6 ॥

    Sugriva spoke to Lakshmana endowed with auspicious signs, and thereupon permitted Tara and other women to leave the place.

    Word by word

    सुग्रीवः Sugriva, शुभलक्षणम् auspicious signs, तं लक्ष्मणम् that Lakshmana, एवम् in such a way, उक्त्वा having spoken, तदा then, ताराम् to Tara, अन्याः योषितश्चैव other women also, विसर्जयामास despatched.

  7. एहि इति उच्छैः हरि वरान् सुग्रीवः समुदाहरत् । तस्य तद् वचनम् श्रुत्वा हरयः शीघ्रम् आययुः ॥ 7 ॥

    Sugriva called in the monkeys who deserved audience of the female folk of the royal family. They came forward quickly with folded hands welcoming the heroes.

    Word by word

    सुग्रीवः Sugriva, एते you come, इति thus, उच्चैः loudly, हरिवरान् foremost of the monkeys, समुदाहरत् as he collected them, तस्य his, तत् that, वचनं श्रुत्वा on hearing the word, ये who, स्त्रीदर्शनक्षमाः female monkeys fit to see, स्युः they be, सर्वे all, हरयः monkeys, बद्धाञ्जलिपुटाः those with folded hands, शीघ्रम् quickly, आययुः came.

  8. बद्ध अंजलि पुटाः सर्वे ये स्युः स्त्री दर्शन क्षमाः । तान् उवाच ततः प्राप्तान् राजा अर्क सदृश प्रभः ॥ 8 ॥

  9. उपस्थापयत क्षिप्रम् शिबिकाम् मम वानराः । श्रुत्वा तु वचनम् तस्य हरयः शीघ्र विक्रमाः ॥ 9 ॥

  10. समुपस्थापयामासुः शिबिकाम् प्रिय दर्शनाम् । ताम् उपस्थापिताम् दृष्ट्वा शिबिकाम् वानराधिपः ॥ 10 ॥

  11. लक्ष्मण आरुह्यताम् शीघ्रम् इति सौमित्रिम् अब्रवीत् । इति उक्त्वा कांचनम् यानम् सुग्रीवः सूर्य सन्निभम् ॥ 11 ॥

  12. बहुभिः हरिभिः युक्तम् आरुरोह स लक्ष्मणः । पाण्डुरेण आतपत्रेण ध्रियमाणेन मूर्धनि ॥ 12 ॥

  13. शुक्लैः च वाल व्यजनैः धूयमानैः समंततः । शंख भेरी निनादैः च वन्दिभिः च अभिवन्दितः ॥ 13 ॥

    With a pale white umbrella over his head, white yaktail fans and sounds of conches and drums, Sugriva set out receiving greetings from monkeys, rejoicing in his royal glory.

    Word by word

    सुग्रीवः Sugriva, अनुत्तमाम् utmost, राज्यश्रियम् royal prosperity, प्राप्य having attained, हरिभिः by monkeys, अभिनन्दितः greeted, मूर्धनि over his head, ध्रियमाणेन holding, शुक्लेश्च पाण्डुरेण with pale white, आतपत्रेण by an umbrella, समन्ततः all over, धूयमानैः fanning, वालव्यजनैः made of yaktail, शङ्खभेरीनिनादैश्च by the sounds of conches and drums निर्ययौ set out.

  14. निर्ययौ प्राप्य सुग्रीवो राज्य श्रियम् अनुत्तमाम् । स वानर शतैः तीष्क्णैः बहुभिः शस्त्र पाणिभिः ॥ 14 ॥

  15. परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः । स तम् देशम् अनुप्राप्य श्रेष्ठम् राम निषेवितम् ॥ 15 ॥

  16. अवातरत् महातेजाः शिबिकायाः स लक्ष्मणः । आसाद्य च ततो रामम् कृत अंजलि पुटो अभवत् ॥ 16 ॥

  17. कृत अंजलौ स्थिते तस्मिन् वानराः च अभवन् तथा । तटाकम् इव तम् दृष्ट्वा रामः कुड्मल पंकजम् ॥ 17 ॥

  18. वानराणाम् महत् सैन्यम् सुग्रीवे प्रीतिमान् अभूत् । पादयोः पतितम् मूर्ध्ना तम् उत्थाप्य हरीश्वरम् ॥ 18 ॥

  19. प्रेम्णा च बहुमानात् च राघवः परिषस्वजे । परिष्वज्य च धर्मात्मा निषीद इति ततो अब्रवीत् ॥ 19 ॥

  20. निषण्णम् तम् ततो दृष्ट्वा क्षितौ रामो अब्रवीत् ततः । धर्मम् अर्थम् च कामम् च काले यः तु निषेवते ॥ 20 ॥

  21. विभज्य सततम् वीर स राजा हरिसत्तम । हित्वा धर्मम् तथा अर्थम् च कामम् यः तु निषेवते ॥ 21 ॥

  22. स वृक्ष अग्रे यथा सुप्तः पतितः प्रतिबुध्यते । अमित्राणाम् वधे युक्तो मित्राणाम् संग्रहे रतः ॥ 22 ॥

  23. त्रिवर्ग फल भोक्ता च राजा धर्मेण युज्यते । उद्योग समयः तु एष प्राप्तः शत्रु निषूदन ॥ 23 ॥

  24. संचिंत्यताम् हि पिंगेश हरिभिः सह मंत्रिभिः । एवम् उक्तः तु सुग्रीवो रामम् वचनम् अब्रवीत् ॥ 24 ॥

  25. प्रनष्टा श्रीः च कीर्तिः च कपि राज्यम् च शाश्वतम् । त्वत् प्रसादात् महाबाहो पुनः प्राप्तम् इदम् मया ॥ 25 ॥

    On hearing this, Sugriva said to Rama,'O longarmed one the fortune, fame and soverignty of vanaras which was lost has been regained only by your grace.

    Word by word

    एवम् in that manner, उक्तः having said, सुग्रीवः Sugriva, रामम् to Rama, वचनम् these words, अब्रवीत् spoke, महाबाहो O longarmed one, प्रणष्टा that had been lost, श्रीश्च fortune, कीर्तिश्च and fame, शाश्वतम् permanent, इदम् this, कपिराज्यं च kingdom of vanaras too, मया by me, त्वत्प्रसादात् by your grace only, प्राप्तम् obtained.

  26. तव देव प्रसदात् च भ्रातुः च जयताम् वर । कृतम् न प्रतिकुर्यात् यः पुरुषाणाम् स दूषकः ॥ 26 ॥

    'O victorious lord he who does not repay the help got through your grace and your brother's is despicable among men.

    Word by word

    देव O lord, जयतां वर best of the victorious men, तव your, भ्रातुश्च your brother's, प्रसादात् by the grace, च also, कृतम् accomplished, यः whoever, न प्रतिकुर्यात् not help in return, पुरुषाणाम् among men, स दूषकः the lowest.

  27. एते वानर मुख्याः च शतशः शत्रु सूदन । प्राप्ताः च आदाय बलिनः पृथिव्याम् सर्व वानरान् ॥ 27 ॥

    'O destroyer of enemies hundreds of strong vanara chiefs gathered from all over the earth have reached here.

    Word by word

    शत्रुसूदन destroyer of enemies, शतशः in hundreds, एते these, वानरमुख्याः chiefs of monkeys, पृथिव्याम् on the earth, बलिनः strong ones, सर्ववानरान् all the vanaras, आदाय gathering, प्राप्ताः have reached.

  28. ऋक्षाः च वानराः शूरा गोलांगूलाः च राघव । कांतार वन दुर्गाणाम् अभिज्ञा घोर दर्शनाः ॥ 28 ॥

    'O Rama valiant bears of fierce appearance, also golangulas (a variety of monkeys with tails like cows') familiar with the inaccessible fortresses of forest have come. These monkeys are sons of divine beings and gandharvas who can assume any form at will. They are on their way along with their armies.

    Word by word

    राघव O Rama, कान्तार वनदुर्गाणाम् inaccessible fortresses of forests, घोरदर्शनाः of fierce appearance, ऋक्षाश्च bears, अवाहिताः familiar with every place, शूराः valiant, गोलाङ्गूलाश्च golangulas also, देवगन्धर्वपुत्राश्च loins of divine beings, and gandharvas, कामरूपिणः who can assume any form at their will, वानराश्च vanaras, स्वैः स्वैः with their, सैन्यैः armies, परिवृताः gathered, पथि on the way, वर्तन्ते are coming.

  29. देव गन्धर्व पुत्राः च वानराः काम रूपिणः । स्वैः स्वैः परिवृताः सैन्यैः वर्तन्ते पथि राघव ॥ 29 ॥

    'O Rama valiant bears of fierce appearance, also golangulas (a variety of monkeys with tails like cows') familiar with the inaccessible fortresses of forest have come. These monkeys are sons of divine beings and gandharvas who can assume any form at will. They are on their way along with their armies.

    Word by word

    राघव O Rama, कान्तार वनदुर्गाणाम् inaccessible fortresses of forests, घोरदर्शनाः of fierce appearance, ऋक्षाश्च bears, अवाहिताः familiar with every place, शूराः valiant, गोलाङ्गूलाश्च golangulas also, देवगन्धर्वपुत्राश्च loins of divine beings, and gandharvas, कामरूपिणः who can assume any form at their will, वानराश्च vanaras, स्वैः स्वैः with their, सैन्यैः armies, परिवृताः gathered, पथि on the way, वर्तन्ते are coming.

  30. शतैः शत सहस्रैः च कोटिभिः च प्लवंगमाः । अयुतैः च आवृता वीरा शंकुभिः च परंतप ॥ 30 ॥

  31. अर्बुदैः अर्बुद शतैः मध्यैः च अन्तैः च वानराः । समुद्राः च परार्धाः च हरयो हरि यूथपाः ॥ 31 ॥

    O scorcher of enemies the vanara troops in hundred thousand crores, ayutas, sanku, arbuda, hundreds of arbudas, madhyas, antyas, samudras and parardhas (100000000000000000), are expected. O king they are residents of Vindhya and Meru mountains, comparable to lord Indra in courage and appear like mountains Meru and Mandara.

    Word by word

    राजन् O king, वीर heroic, शतैः in hundreds, शतसहस्रैश्च in lakhs, कोटिभिश्च even in crores, प्लवङ्गमाः monkeys, अयुतैश्च in ayutas, शङ्कुभिश्च in sankus(multitudes), अर्बुदैः one hundred millions, अर्बुदशतैः hundreds of arbudas, मध्यैश्च in madhyas, अन्त्येश्च in antyas, आवृताः come together, वानराः monkeys, वर्तन्ते are reaching, समुद्रैश्च in samudras, परार्धैश्च in parardhas, हरयः monkeys, महेन्द्रसमविक्रमाः comparable to Indra in courage, मेरुमन्दरसङ्काशाः mount Meru, and Mandara, विन्ध्यमेरुकृतालयाः mount Vindhya and Meru, हरियूथपाः monkey troops, आगमिष्यन्ति have started coming.

  32. आगमिष्यन्ति ते राजन् महेन्द्र सम विक्रमाः । मेघ पर्वत संकाशा मेरु विन्ध्य कृत आलयाः ॥ 32 ॥

    O scorcher of enemies the vanara troops in hundred thousand crores, ayutas, sanku, arbuda, hundreds of arbudas, madhyas, antyas, samudras and parardhas (100000000000000000), are expected. O king they are residents of Vindhya and Meru mountains, comparable to lord Indra in courage and appear like mountains Meru and Mandara.

    Word by word

    राजन् O king, वीर heroic, शतैः in hundreds, शतसहस्रैश्च in lakhs, कोटिभिश्च even in crores, प्लवङ्गमाः monkeys, अयुतैश्च in ayutas, शङ्कुभिश्च in sankus(multitudes), अर्बुदैः one hundred millions, अर्बुदशतैः hundreds of arbudas, मध्यैश्च in madhyas, अन्त्येश्च in antyas, आवृताः come together, वानराः monkeys, वर्तन्ते are reaching, समुद्रैश्च in samudras, परार्धैश्च in parardhas, हरयः monkeys, महेन्द्रसमविक्रमाः comparable to Indra in courage, मेरुमन्दरसङ्काशाः mount Meru, and Mandara, विन्ध्यमेरुकृतालयाः mount Vindhya and Meru, हरियूथपाः monkey troops, आगमिष्यन्ति have started coming.

  33. ते त्वाम् अभिगमिष्यन्ति राक्षसम् योद्धुम् आहवे । निहत्य रावणम् युद्धे हि आनयिष्यन्ति मैथिलीम् ॥ 33 ॥

    'The monkeys who can kill ogre Ravana and his relatives in battle and bring back Maithili will be arriving shortly.

    Word by word

    ये those, संख्ये in war, सबान्धवम् with relatives, राक्षसम् ogre, रावणम् Ravana, निहत्य after killing, मैथिलीम् Maithili, आनयिष्यन्ति will bring her, ते they, त्वाम् you, अभिगमिष्यन्ति they will reach you.

  34. ततः समुद्योगम् अवेक्ष्य वीर्यवान्हरि प्रवीरस्य निदेश वर्तिनः । बभूव हर्षात् वसुधा अधिप आत्मजःप्रबुद्ध नील उत्पल तुल्य दर्शनः ॥ 34 ॥

    The wise statesman, Rama observing the efforts of Sugriva and his attendants looked like a blooming blue lotus through delight. इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे अष्टत्रिंशस्सर्गः।। Thus ends of thirtyeighth sarga in Kishkindakanda of the first epic, the Holy Ramayana, composed by sage Valmiki.

    Word by word

    ततः then, बुद्धिमान् wise, वसुधाधिपात्मजः son to king of the earth (Rama), निदेशवर्तिनः those who take orders, हरिप्रवीरस्य of the monkey lord, तमुद्योगम् that effort, अवेक्ष्य observing, हर्षात् with delight, प्रबुद्धनीलोत्पलतुल्यदर्शनः appeared like a blooming blue lotus, बभूव remained.

Reach this point to mark the section finished.

Continue to सर्ग 39

Previous: सर्ग 37