पुरा राम महाबाहो महाबल पराक्रम । रूपम् आसीत् मम अचिंत्यम् त्रिषु लोकेषु विश्रुतम् ॥ 1 ॥
O longarmed, mighty and powerful Rama in the past I was handsome like the Moon or Indra or the Sun inconceivable to all the three worlds.
Word by wordHide word by word
महाबाहो longarmed, महाबलपराक्रम strong and powerful, राम O Rama, पुरा in the past, सोमस्य the Moon's, शक्रस्य Indra's, यथा as, सूर्यस्य च the Sun's, वपुः body, यथा like that, मम my,रूपम् form, अचिन्त्यम् inconceivable, त्रिषु लोकेषु in the three worlds, विश्रुतम् renowned, आसीत् it was.
यथा सूर्यस्य सोमस्य शक्रस्य च यथा वपुः । सो अहम् रूपम् इदम् कृत्वा लोक वित्रासनम् महत् ॥ 2 ॥
ऋषीन् वन गतान् राम त्रासयामि ततः ततः । ततः स्थूलशिरा नाम महर्षिः कोपितो मया ॥ 3 ॥
संचिन्वन् विविधम् वन्यम् रूपेण अनेन धर्षितः । तेन अहम् उक्तः प्रेक्ष्य एवम् घोर शाप अभिधायिना ॥ 4 ॥
एतत् एव नृशंसम् ते रूपम् अस्तु विगर्हितम् । स मया याचितः क्रुद्धः शापस्य अन्तो भवेत् इति ॥ 5 ॥
अभिशाप कृतस्य इति तेन इदम् भाषितम् वचः । यदा छित्त्वा भुजौ रामः त्वाम् दहेत् विजने वने ॥ 6 ॥
तदा त्वम् प्राप्स्यसे रूपम् स्वम् एव विपुलम् शुभम् । श्रिया विराजितम् पुत्रम् दनोः त्वम् विद्धि लक्ष्मण ॥ 7 ॥
इन्द्र कोपात् इदम् रूपम् प्राप्तम् एवम् रण आजिरे । अहम् हि तपसा उग्रेण पितामहम् अतोषयम् ॥ 8 ॥
दीर्घम् आयुः स मे प्रादात् ततो माम् विभ्रमो अस्पृशत् । दीर्घम् आयुः मया प्राप्तम् किम् मे शक्रः करिष्यति ॥ 9 ॥
इति एवम् बुद्धिम् आस्थाय रणे शक्रम् अधर्षयम् । तस्य बाहु प्रमुक्तेन वज्रेण शत पर्वणा ॥ 10 ॥
सक्थिनी च शिरः चैव शरीरे संप्रवेशितम् । स मया याच्यमानः सन् न आनयत् यम सादनम् ॥ 11 ॥
पितामह वचः सत्यम् तत् अस्ति इति मम अब्रवीत् । अनाहारः कथम् शक्तो भग्न सक्थि शिरो मुखः ॥ 12 ॥
वज्रेण अभिहतः कालम् सु दीर्घम् अपि जीवितुम् । स एवम् उक्तः मे शक्रो बाहू योजनम् आयतौ ॥ 13 ॥
तदा च आस्यम् च मे कुक्षौ तीक्ष्ण दंष्ट्रम् अकल्पयत् । सो अहम् भुजाभ्याम् दीर्घाभ्याम् संकृष्य अस्मिन् वने चरान् ॥ 14 ॥
सिंह द्विपि मृग व्याघ्रान् भक्षयामि समंततः । स तु माम् अब्रवीत् इन्द्रो यदा रामः स लक्ष्मणः ॥ 15 ॥
छेत्स्यते समरे बाहू तदा स्वर्गम् गमिष्यसि । अनेन वपुषा तात वने अस्मिन् राजसत्तम ॥ 16 ॥
यत् यत् पश्यामि सर्वस्य ग्रहणम् साधु रोचये । अवश्यम् ग्रहणम् रामो मन्ये अहम् समुपैष्यति ॥ 17 ॥
इमाम् बुद्धिम् पुरस्कृत्य देह न्यास कृत श्रमः । स त्वम् रामो असि भद्रम् ते न अहम् अन्येन राघव ॥ 18 ॥
शक्यो हन्तुम् यथा तत्त्वम् एवम् उक्तम् महर्षिणा । अहम् हि मति साचिव्यम् करिष्यामि नर ऋषभ ॥ 19 ॥
मित्रम् चैव उपदेक्ष्यामि युवाभ्याम् संस्कृतो अग्निना । एवम् उक्तः तु धर्मात्मा दनुना तेन राघवः ॥ 20 ॥
इदम् जगाद वचनम् लक्ष्मणस्य उपशृण्वतः । रावणेन हृता सीता मम भार्या यशस्विनी ॥ 21 ॥
निष्क्रांतस्य जनस्थानात् सह भ्रात्रा यथा सुखम् । नाम मात्रम् तु जानामि न रूपम् तस्य रक्षसः ॥ 22 ॥
निवासम् वा प्रभावम् वा वयम् तस्य न विद्महे । शोक आर्तानाम् अनाथानाम् एवम् विपरिधावताम् ॥ 23 ॥
कारुण्यम् सदृशम् कर्तुम् उपकारे च वर्तताम् । काष्ठानि आनीय भग्नानि काले शुष्काणि कुंजरैः ॥ 24 ॥
धक्ष्यामः त्वाम् वयम् वीर श्वभ्रे महति कल्पिते । स त्वम् सीताम् समाचक्ष्व येन वा यत्र वा हृता ॥ 25 ॥
कुरु कल्याणम् अत्यर्थम् यदि जानासि तत्त्वतः । एवम् उक्तः तु रामेण वाक्यम् दनुः अनुत्तमम् ॥ 26 ॥
प्रोवाच कुशलो वक्तुम् वक्तारम् अपि राघवम् । दिव्यम् अस्ति न मे ज्ञानम् न अभिजानामि मैथिलीम् ॥ 27 ॥
यः ताम् ज्ञास्यति तम् वक्ष्ये दग्धः स्वम् रूपम् आस्थितः । यो अभिजानाति तद् रक्षः तद् वक्ष्ये राम तत् परम् ॥ 28 ॥
अदग्धस्य हि विज्ञातुम् शक्तिः अस्ति न मे प्रभो । राक्षसम् तम् महावीर्यम् सीता येन हृता तव ॥ 29 ॥
O lord before I am cremated, I do not have the ability to know about that powerful demon by whom Sita has been abducted.
Word by wordHide word by word
प्रभो O lord, येन by whom, तव your, सीता Sita, हृता is taken away, तम् him, महावीर्यम् very powerful, राक्षसम् rakshasa, विज्ञातुम् to know, अदग्धस्य without being burnt, मे to me, शक्तिः ability, नास्ति is not there.
विज्ञानम् हि महत् भ्रष्टम् शाप दोषेण राघव । स्वकृतेन मया प्राप्तम् रूपम् लोक विगर्हितम् ॥ 30 ॥
O Rama due to the curse I have lost my wisdom. By my own deed, I have attained this form despicable to the world.
Word by wordHide word by word
राघव Rama, शापदोषेण due to the curse, मम my, विज्ञानम् wisdom, भ्रष्टं हि is indeed lost, मया by me, स्वकृतेन by my own deed, लोकविगर्हितम् a form despised by the world, रूपम् this form, प्राप्तम् is attained.
किम् तु यावत् न याति अस्तम् सविता श्रान्त वाहनः । तावत् माम् अवटे क्षिप्त्वा दह राम यथा विधि ॥ 31 ॥
Before the Sun disappears with his tired horses drop me into a pit and cremate me in accordance with tradition, O Rama
Word by wordHide word by word
राम Rama, किं तु but, सविता Sun, श्रान्तवाहनः with his vehicle (horses) tired, अस्तम् (याति) setting, यावत् before, तावत् by then, माम् me, अवटे in a pit, क्षिप्त्वा dropping, यथाविधि in accordance with tradition, दह you may cremate.
दग्धः त्वया अहम् अवटे न्यायेन रघुनंदन । वक्ष्यामि तम् महावीर यः तम् वेत्स्यति राक्षसम् ॥ 32 ॥
O heroic Rama, delight of the Raghus, if you drop me in a pit and cremate me as per custom, I will tell you about him who knows the demon.
Word by wordHide word by word
वीर O hero, रघुनन्धन O delight of the Raghus, अहम् I, त्वया by you, न्यायेन as per custom, अवटे in a pit, दग्धः cremated, यः whoever, तं राक्षसम् to that demon, ज्ञास्यति knows, तम् about him, वक्ष्यामि I will let you know.
तेन सख्यम् च कर्तव्यम् न्याय्य वृत्तेन राघव । कल्पयिष्यति ते प्रीतः साहाय्यम् लघु विक्रमः ॥ 33 ॥
O Rama you should establish friendship with him in a just manner. That hero of swift action will help you when he is pleased.
Word by wordHide word by word
राघव Rama, न्याय्यवृत्तेन rightfully conducting, तेन with him, सख्यं च friendship, कर्तव्यम् you should establish, लघुविक्रमः a warrior of swift action, प्रीतः a pleased one, ते to you, साहाय्यम् help, कल्पयिष्यति he will do.
न हि तस्य अस्ति अविज्ञातम् त्रिषु लोकेषु राघव । सर्वान् परिवृतो लोकान् पुरा वै कारण अन्तरे ॥ 34 ॥
O Rama, there is nothing that he does not know in the three worlds. In the past for a different reason he roamed all the (three) worlds. इत्यार्ष श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे एकसप्ततितमस्सर्गः।। Thus ends the seventyfirst sarga of Aranyakanda of the holy Ramayana the first epic composed by sage Valmiki.
Word by wordHide word by word
राघव Rama, त्रिषु in the three, लोकेषु worlds, तस्य for him, अविज्ञातम् unknown to him, नास्ति is not there, हि do, असौ he, पुरा in the past, कारणान्तरे for a different cause, सर्वान् all, लोकान् worlds, परिसृतः has roamed about.
अरण्यकाण्ड
सर्ग 71
Reach this point to mark the section finished.
Continue to सर्ग 72