धर्मDharmic Data

अरण्यकाण्ड

सर्ग 23

  1. तत् प्रयातम् बलम् घोरम् अशिवम् शोणित उदकम् । अभ्यवर्षत् महा मेघः तुमुलो गर्दभ अरुणः ॥ 1 ॥

    As the army marched from there (Janasthana) a huge dark cloud of the colour of an ass rained dreadful inauspicious water, red as blood.

    Word by word

    गर्दभारुणः dark like the colour of an ass, तुमुलः fierce, महामेघः huge cloud, तस्मिन् that army, याते marched, तत् there, घोरम् dreadful, बलम् army, अशिवम् inauspicious, शोणितोदकम् water red as blood, अभ्यवर्षत् rained.

  2. निपेतुः तुरगाः तस्य रथ युक्ता महाजवाः । समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥ 2 ॥

    The swift horses yoked to the chariot stumbled casually while galloping on the plane highway sprinkled with flowers.

    Word by word

    रथयुक्ताः yoked to the chariot, महाजवाः of high speed, तस्य his, तुरगाः horses, राजमार्गे on the highway, पुष्पचिते समे sprinkled with flowers evenly, देशे place, यदृच्छया casually, निपेतुः stumbled.

  3. श्यामम् रुधिर पर्यन्तम् बभूव परिवेषणम् । अलात चक्र प्रतिमम् प्रतिगृह्य दिवाकरम् ॥ 3 ॥

    A dark ring, bloodred in colour appeared on the border of the Sun's orb, dark in the middle. This phenomenon of the Sun appeared like a ring of moving charcoal covering the Sun.

    Word by word

    दिवाकरम् Sun, परिगृह्य took position, श्यामम् dark, रुधिरपर्यन्तम् red in the periphery, अलातचक्रप्रतिमम् moving firebrand creating a ring, परिवेषणम् surrounding, बभूव appeared,

  4. ततो ध्वजम् उपागम्य हेम दण्डम् समुच्छ्रितम् । समाक्रम्य महाकायः तस्थौ गृध्रः सुदारुणः ॥ 4 ॥

    A huge vulture, frightening to look at flew up and sat on top of the flag on the staff of gold.

    Word by word

    ततः then, महाकायः huge, सुदारुणः frightening, गृध्रः vulture, समुच्छ्रितम् erected, ध्वजम् flag, उपागम्य flying up, हेमदण्डम् golden staff, समाक्रम्य after occupying, तस्थौ sat.

  5. जनस्थान समीपे च समाक्रम्य खर स्वनाः । विस्वरान् विविधान् च चक्रुः मांस आदा मृग पक्षिणः ॥ 5 ॥

    Flesheating beasts and birds flocked at Janasthana producing a cacophony.

    Word by word

    खरस्वनाः of harsh voice, मांसादाः flesheating, मृगपक्षिणः beasts and birds, जनस्थानसमीपे near Janasthana, समागम्य flocking, विविधान् different kinds of, विस्वरान् hoarse voice, चक्रुः created.

  6. व्याजह्रुः च पदीप्तायाम् दिशि वै भैरव स्वनम् । अशिवा यातुधानानाम् शिवा घोरा महास्वनाः ॥ 6 ॥

    The dreadful jackals making ghastly howls turning towards the illuminated direction and produced frightening sounds indicating inauspicious time for the demons.

    Word by word

    घोराः frightful, महास्वनाः ghastly howls, शिवाः jackals, प्रदीप्तायाम् in the illuminated, दिशि direction, भैरवस्वनम् terrible sound, यातुधानानाम् of demons, अशिवम् inauspicious, व्याजह्रुः indicated.

  7. प्रभिन्नगजसंकाशतोयशोणितधारिणः । यद्वा -प्रभिन्न गज संकाश तोय शोणित धारिणः । आकाशम् तत् अनाकाशम् चक्रुः भीम अंबु वाहकाः ॥ 7 ॥

  8. बभूव तिमिरम् घोरम् उद्धतम् रोम हर्षणम् । दिशो वा प्रदिशो वा अपि सुव्यक्तम् न चकाशिरे ॥ 8 ॥

    A terrific darkness, spread all over, produced frightening horripilation. Even the four quarters and the intermediary zones were not discernible.

    Word by word

    घोरम् terrible, उद्धतम् arose, रोमहर्षणम् horripilation, तिमिरम् darkness, बभूव became, दिशो वा whether quarters, विदिशो वापि or the intermediary, व्यक्तम् clearly, न चकाशिरे did not shine.

  9. क्षतज आर्द्र सवर्णाभा संध्या कालम् विना बभौ । खरम् च अभिमुखम् नेदुः तदा घोरा मृगाः खगाः ॥ 9 ॥

    Even before Sunset the twilight looked like a fresh wound. Then wild animals, birds, kankas, jackals and vultures facing towards Khara screeched, indicating danger.

    Word by word

    कालं विना before Sunset, क्षतजार्द्रसवर्णाभा glow like a fresh wound, सन्ध्या twilight, बभौ appeared, तदा then, घोरमृगाः dreadful animals, खगाः birds, खरस्य of Khara, अभिमुखाः directed towards, नेदुः produced sounds, कङ्कगोमायुगृध्राश्च kanka birds, jackals, and vultures, भयशंसिनः indicating danger, चक्रुशुः screeched.

  10. कंक गोमायु गृध्राः च चुक्रुशुः भय संशिनः । नित्या अशिव करा युद्धे शिवा घोर निदर्शनाः ॥ 10 ॥

  11. नेदुः बलस्य अभिमुखम् ज्वाल उद्गारिभिः आननैः । कबन्धः परिघ आभासो दृश्यते भास्कर अंतिके ॥ 11 ॥

  12. जग्राह सूर्यम् स्वर्भानुः अपर्वणि महाग्रहः । प्रवाति मारुतः शीघ्रम् निष्प्रभो अभूत् दिवाकरः ॥ 12 ॥

    The planet Ketu appeared like an iron beam near the Sun. Although it was not the fullmoon or newmoon day, Rahu eclipsed the Sun. Wind blew hard and the Sun was lustreless.

    Word by word

    भास्करान्तिके close to the Sun, परिघाभासः appearing like an iron beam, कबन्ध: Ketu, दृश्यते seen, महाग्रहः a great planet, स्वर्भानुः Rahu, अपर्वणि other than the new Moon, सूर्यम् Sun, जग्राह eclipsed, मारुतः wind, शीघ्रम् swiftly, प्रवाति blew, दिवाकरः Sun, निष्प्रभः without lustre, अभूत् appeared.

  13. उत्पेतुः च विना रात्रिम् ताराः खद्योतन प्रभाः । संलीन मीन विहगा नलिन्यः शुष्क पंकजाः ॥ 13 ॥

    The stars rose in the sky and glittered like fireflies even before night arrived. The fishes and the aquatic birds in the lotusponds hid themselves under water. Lotuses dried up in tanks and the trees stood bereft of flowers and fruits.

    Word by word

    खद्योतसम्प्रभाः glittering like fireflies, ताराः stars, विना without, रात्रिम् night, उत्पेतुः rose, संलीनमीनविहगाः fishes and birds disappear, नलिन्यः lotusponds, शुष्कपङ्कजाः have dried up lotuses, तस्मिन् in that, क्षणे moment, द्रुमाः trees, पुष्पफलैः flowers and fruits, विना without, बभूवुश्च became.

  14. तस्मिन् क्षणे बभूवुः च विना पुष्प फलैः द्रुमाः । उद्धूतः च विना वातम् रेणुः जलधर अरुणः ॥ 14 ॥

  15. चीची कूचि इति वाश्यन्तो बभूवुः तत्र सारिकाः । उल्काः च अपि स निर्घोषा निपेतुः घोर दर्शनाः ॥ 15 ॥

  16. प्रचचाल मही च अपि स शैल वन कानना । खरस्य च रथस्थस्य नर्दमानस्य धीमतः ॥ 16 ॥

  17. प्राकम्पत भुजः सव्यः स्वरः च अस्य अवसज्जत । स अस्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः ॥ 17 ॥

  18. ललाटे च रुजो जाता न च मोहात् न्यवर्तत । तान् समीक्ष्य महोत्पातान् उत्थितान् रोम हर्षणान् ॥ 18 ॥

  19. अब्रवीत् राक्षसान् सर्वान् प्रहसन् स खरः तदा । महा उत्पातान् इमान् सर्वान् उत्थितान् घोर दर्शनान् ॥ 19 ॥

  20. न चिंतयामि अहम् वीर्यात् बलवान् दुर्बलान् इव । तारा अपि शरैः तीक्ष्णैः पातयेयम् नभः तलात् ॥ 20 ॥

  21. मृत्युम् मरण धर्मेण संक्रुद्धो योजयामि अहम् । राघवम् तम् बल उत्सिक्तम् भ्रातरम् च अस्य लक्ष्मणम् ॥ 21 ॥

  22. अहत्वा सायकैः तीक्ष्णैः न उपावर्तितुम् उत्सहे । यन् निमित्तम् तु रामस्य लक्ष्मणस्य विपर्ययः ॥ 22 ॥

  23. सकामा भगिनी मे अस्तु पीत्वा तु रुधिरम् तयोः । न क्वचित् प्राप्त पूर्वो मे संयुगेषु पराजयः ॥ 23 ॥

    Let my sister be satisfied by drinking the blood of both Rama and Lakshmana on whose account this adversity has come.

    Word by word

    रामस्य Rama's, लक्ष्मणस्य Lakshmana's, विपर्ययः adversity, यन्निमित्तः for whose cause, मे भगिनी my sister, तयोः their, रुधिरम् blood, पीत्वा after drinking, सकामा her desire, अस्तु be fulfilled,

  24. युष्माकम् एतत् प्रत्यक्षम् न अनृतम् कथयामि अहम् । देव राजम् अपि क्रुद्धो मत्त ऐरावत गामिनम् ॥ 24 ॥

  25. वज्र हस्तम् रणे हन्याम् किम् पुनः तौ च मानुषौ । सा तस्य गर्जितम् श्रुत्वा राक्षसाअनाम् महा चमूः ॥ 25 ॥

  26. प्रहर्षम् अतुलम् लेभे मृत्यु पाश अवपाशिता । समेयुः च महात्मानो युद्ध दर्शन कांक्षिणः ॥ 26 ॥

  27. ऋषयो देव गन्धर्वाः सिद्धाः च सह चारणैः । समेत्य च ऊचुः सहिताः ते अन्यायम् पुण्यकर्मणः ॥ 27 ॥

  28. स्वस्ति गो ब्राह्मणेभ्यो अस्तु लोकानाम् ये च सम्मताः । जयताम् राघवो युद्धे पौलस्त्यान् रजनी चरान् ॥ 28 ॥

  29. चक्रहस्तो यथा विष्णुः सर्वान् असुर सत्तमान् । एतत् च अन्यत् च बहुशो ब्रुवाणाः परम ऋषयः ॥ 29 ॥

  30. जात कौतूहलात् तत्र विमानस्थाः च देवताः । ददृशुर् वाहिनीम् तेषाम् राक्षसानाम् गत आयुषाम् ॥ 30 ॥

    The great ascetics were talking thus and more. The gods waiting eagerly on heavenly chariots saw the army of the demons whose life span was shortened (who were doomed to death).

    Word by word

    एतच्चान्यच्च these matters, बहुशः more and more, ब्रुवाणाः while talking, परमर्षयः great ascetics, तत्र there, विमानस्थाः occupants of heavenly chariots, देवताश्च gods too, जातकौतूहलाः with much eagerness, गतायुषाम् those of reduced life span, तेषाम् of those, राक्षसानाम् of demons, वाहिनीम् army, ददृशुः saw.

  31. रथेन तु खरो वेगात् सैन्यस्य अग्रात् विनिःसृतः । श्येनगामी पृथुग्रीवो यज्ञशत्रुः विहंगमः ॥ 31 ॥

  32. दुर्जयः करवीराक्षः परुषः कालकार्मुकः । हेममाली महामाली सर्पाअस्यो रुधिराशनः ॥ 32 ॥

    Surrounded by twelve valiant warriors like Syenagami, Pruthugreeva, Yagnasatru, Vihangama, Durjaya, Karaviraksha, Parusha, Kalakarmuka, Meghmali, Mahamali, Sarpasya and Rudhirasana, Khara proceeded.

    Word by word

    श्येनगामी moving like a hawk, पृथुग्रीवः Pruthugreeva (one with a big neck), यज्ञशत्रुः Yagnasatru (enemy of sacrifices), विहङ्गमः Vihangama (who knows how to move in the sky), दुर्जयः Durjaya (an invincible one), करवीराक्षः Karaviraksha (one whose eyes are like the oleander flower), परुषः Parusha (harsh), कालकार्मुकः Kalakarmuka (bow of death), मेघमाली Meghamali (clouds in a row), महामाली Mahamali (a long row), सर्पास्यः Sarpasya (serpentmouthed), रुधिराशनः Rudhirasana (one who feeds on blood), महावीर्याः Mahaveerya (mighty), एते all of them, द्वादश twelve, खरम् अभितः ahead of Khara, प्रतस्थुः marched.

  33. द्वादश एते महावीर्याः प्रतस्थुः अभितः खरम् । महाकपालः स्थूलाक्षः प्रमाथी त्रिशिराः तथा । चत्वार एते सेना अग्रे दूषणम् पृष्ठतो अन्वयुः ॥ 33 ॥

  34. सा भीम वेगा समर अभिकांक्षिणीसुदारुणा राक्षस वीर सेना । तौ राज पुत्रौ सहसा अभ्युपेतामाला ग्रहाणाम् इव चन्द्र सूर्यौ ॥ 34 ॥

    The mighty, swiftfooted army of valiant demons surrounded the princes (Rama and Lakshmana) all on a sudden like the planets around the Sun and the Moon. इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे त्रयोविंशस्सर्गः।। Thus ends the twentythird sarga of Aranyakanda of the holy Ramayana the first epic composed by sage Valmiki.

    Word by word

    भीमवेगाः very fast, समराभिकामाः eager for war, महाबलाः mighty, सा that, राक्षसवीरसेना the heroic army of demons, सहसा at once, ग्रहाणाम् of planets, माला garland, चन्द्रसूर्यौ इव like Sun and Moon, तौ those, राजपुत्रौ king's sons, अभ्युपेता: attacked.

Reach this point to mark the section finished.

Continue to सर्ग 24

Previous: सर्ग 22