वाक्यम् एतत् तु वैदेह्या व्याहृतम् भर्तृ भक्त्या । श्रुत्वा धर्मे स्थितो रामः प्रत्युवाच जानकीम् ॥ 1 ॥
Having heard these words spoken by Sita who was devoted to her husband, replied Rama who was firm in righteousness.
Word by wordHide word by word
भर्तृभक्तया out of devotion to her husband, वैदेह्या by Sita, व्याहृतम् spoken, एतत् this, वाक्यम् word, श्रुत्वा on hearing, धर्मे in righteousness, स्थितः steadfast, रामः Rama, अथ thereafter, मैथिलीम् to Sita, प्रत्युवाच replied.
हितम् उक्तम् त्वया देवि स्निग्धया सदृशम् वचः । कुलम् व्यपदिशन्त्या च धर्मज्ञे जनक आत्मजे ॥ 2 ॥
O daughter of Janaka, you are conversant with dharma. Whatever you have admonished out of affection for me is befitting your race.
Word by wordHide word by word
देवि O Devi, धर्मज्ञे O one who knows righteousness जनकात्मजे O daughter of Janaka, कुलम् race, व्यपदिशन्त्या by admonishing, स्निग्धया affectionately, त्वया by you, हितम् good, सदृशम् suitable, वचः words, उक्तम् is stated.
किम् नु वक्ष्यामि अहम् देवि त्वया एव उक्तम् इदम् वचः । क्षत्रियैः धार्यते चापो न आर्त शब्दो भवेद् इति ॥ 3 ॥
But permit me, Devi, you have already stated, when a kshatriya holds a bow there will be no cry of distress. (it means you approve of my holding a bow)
Word by wordHide word by word
देवि O Devi, अहम् I, किन्तु but, वक्ष्यामि I speak, आर्तशब्दः cry of distress न भवेदिति not to arise, क्षत्रियैः by kshatriyas, चापः bow, धार्यते is held, इदम् this way, वचः declaration, त्वयैव by yourself, उक्तम् is spoken.
ते च आर्ता दण्डकारण्ये मुनयः संशित व्रताः । माम् सीते स्वयम् आगम्य शरण्याः शरणम् गताः ॥ 4 ॥
O Sita, the sages who perform rigorous penance in Dandaka forest came to me personally, seeking shelter although they can be their own protection.
Word by wordHide word by word
सीते Sita, संशितव्रता: practising rigorous austerities, शरण्या worthy of giving refuge, दण्डकारण्ये in Dandaka forest, ते मुनयः those sages, आर्ताः in distress, स्वयम् personally, आगम्य after coming to me, माम् myself, शरणं गताः sought refuge.
वसन्तः काल कालेषु वने मूल फल अशनाः । न लभन्ते सुखम् भीरु राक्षसैः क्रूर कर्मभिः ॥ 5 ॥
The sages living in the forest, eating roots and fruits and ever engaged in righteous activities are afraid of the depredations of the demons, with their happiness gone.
Word by wordHide word by word
मूलफलाशनाः living on roots and fruits, धर्मनिरताः engaged in righteous activition वने in the forest, वसन्तः residing, क्रूरकर्मभिः by cruel activities, राक्षसैः by demons, भीताः are afraid, सुखम् happiness, न लभन्ते do not get.
भक्ष्यन्ते राक्षसैः भीमैः नर मांसोपजीविभिः । ते भक्ष्यमाणा मुनयो दण्डकारण्य वासिनः ॥ 6 ॥
अस्मान् अभ्यवपद्य इति माम् ऊचुर् द्विज सत्तमाः । मया तु वचनम् श्रुत्वा तेषाम् एवम् मुखात् च्युतम् ॥ 7 ॥
कृत्वा वचन शुश्रुषाम् वाक्यम् एतत् उदाहृतम् । प्रसीदन्तु भवन्तो मे ह्रीः एषा तु मम अतुला ॥ 8 ॥
यद् ईदृशैः अहम् विप्रैः उपस्थेयैः उपस्थितः । किम् करोमि इति च मया व्याहृतम् द्विज संनिधौ ॥ 9 ॥
सर्वैः एव समागम्य वाक् इयम् समुदाहृता । राक्षसैः दण्डकारण्ये बहुभिः काम रूपिभिः ॥ 10 ॥
अर्दिताः स्म भृशम् राम भवान् नः तत्र रक्षतु । होम काले तु संप्राप्ते पर्व कालेषु च अनघ ॥ 11 ॥
धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशित अशनाः । राक्षसैः धर्षितानाम् च तापसानाम् तपस्विनाम् ॥ 12 ॥
गतिम् मृगयमाणानाम् भवान् नः परमा गतिः । कामम् तपः प्रभावेण शक्ता हन्तुम् निशाचरान् ॥ 13 ॥
चिरार्जितम् न च इच्छामः तपः खण्डयितुम् वयम् । बहु विघ्नम् तपो नित्यम् दुःश्चरम् चैव राघव ॥ 14 ॥
तेन शापम् न मुंचामो भक्ष्यमाणाः च राक्षसैः । तद् अर्द्यमानान् रक्षोभिः दण्डकारण्य वासिभिः ॥ 15 ॥
रक्ष नः त्वम् सह भ्रात्रा त्वम् नाथा हि वयम् वने । मया च एतत् वचः श्रुत्वा कार्त्स्न्येन परिपालनम् ॥ 16 ॥
ऋषीणाम् दण्डकारण्ये संश्रुतम् जनकाअत्मजे । संश्रुत्य न च शक्ष्यामि जीवमानः प्रतिश्रवम् ॥ 17 ॥
मुनीनाम् अन्यथा कर्तुम् सत्यम् इष्टम् हि मे सदा । अपि अहम् जीवितम् जह्याम् त्वाम् वा सीते स लक्ष्मणाम् ॥ 18 ॥
न तु प्रतिज्ञाम् संश्रुत्य ब्राह्मणेभ्यो विशेषतः । तत् अवश्यम् मया कार्यम् ऋषीणाम् परिपालनम् ॥ 19 ॥
अनुक्तेन अपि वैदेहि प्रतिज्ञाय कथम् पुनः । मम स्नेहात् च सौहार्दात् इदम् उक्तम् त्वया वचः ॥ 20 ॥
परितुष्टो अस्मि अहम् सीते न हि अनिष्टो अनुशास्यते । सदृशम् च अनुरूपम् च कुलस्य तव शोभने । सधर्म चारिणी मे त्वम् प्राणेभ्यो अपि गरीयसी ॥ 21 ॥
इति एवम् उक्त्वा वचनम् महात्मासीताम् प्रियाम् मैथिल राज पुत्रीम् । रामो धनुष्मान् सह लक्ष्मणेनजगाम रम्याणि तपो वनानि ॥ 22 ॥
Having said this to Sita, the princess of Mithila, Rama along with Lakshmana, bow in hand, moved about the delightful penancegrove. इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे दशमस्सर्गः।। Thus ends the tenth sarga of Aranyakanda of the holy Ramayana the first epic composed by the sage Valmiki.
Word by wordHide word by word
महात्मा great soul, रामः Rama, प्रियाम् to his beloved, मैथिलराजपुत्रीम् to the daughter of king of Mithila, सीताम् to Sita, इत्येवम् in this way, वचनम् statement, उक्त्वा on having said, धनुष्मान् wielding the bow, सह लक्ष्मणेन with Lakshmana, रम्याणि most delightful, तपोवनानि penance groves, जगाम moved about.
अरण्यकाण्ड
सर्ग 10
Reach this point to mark the section finished.
Continue to सर्ग 11