सा अपनीय तम् आयासम् उपस्पृश्य जलम् शुचि । चकार माता रामस्य मन्गलानि मनस्विनी ॥ 1 ॥
Highminded mother Kausalya, her anguish subdued, performed the sipping rite (achamana) and her self rendered pure, performed auspicious ceremonies for Rama.
Word by wordHide word by word
मनस्विनी highminded lady, माता mother, सा she, तम् आयासम् such anguish, अवनीय restraining, जलम् water, उपस्पृश्य having performed the sipping (achamana), शुचिः rite sure, रामस्य of Rama, मङ्गलानि auspicious ceremonies, चकार performed.
न शक्यसे वारयौइतुम् गच्छेदानीम् रघुत्तम । श्रीघ्रम् च विनिवर्तस्व वर्तस्व च सताम् क्रमे ॥ 2 ॥
I am unable to dissuade you, O the best among the descendants of Raghus, from going into the forest. Go now and return soon. Follow in the footsteps of the virtuous.
Word by wordHide word by word
रघूत्तम O the best among descendants of Raghu, वारयितुम् to dissuade, न शक्यसे not able, इदानीम् now, गच्छ go, शीघ्रम् soon, विनिवर्तस्व return, सताम् of good men, क्रमे in footsteps, वर्तस्व follow.
यम् पालयसि धर्मम् त्वम् धृत्या च नियमेन च । सवै राघवशार्दुल! धर्मस्त्वामभिरक्षतु ॥ 3 ॥
The duty which you are carrying out with courage and selfdiscipline, O tiger among the descendants of Raghu will alone protect you.
Word by wordHide word by word
राघवशार्दूल O tiger among the descendants of Raghu त्वम् you, धृत्या with courage, नियमेन च with selfdiscipline, यं धर्मम् which duty, पालयसि you are carrying out, सः धर्मः वै that duty alone, त्वाम् you, अभिरक्षतु let it protect.
येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च । ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥ 4 ॥
O my son may the gods in the temples and in other sacred places and the maharshis you bow to protect you in the forest
Word by wordHide word by word
पुत्र son, चैत्येषु in sacred places, आयतनेषु च in temples, येभ्यः to whom, प्रणमसे you are saluting, ते they, महर्षिभिः सह together with maharshis, त्वाम् you, वने in the forest, अभिरक्षन्तु protect you.
यानि दत्तानि तेऽ स्त्राणि विश्वामित्रेण धीमता । तानि त्वामभिरक्षन्तु गुणैस्समुदितम् सदा ॥ 5 ॥
May the weapons endowed with mantric qualities, which were bestowed on you by sagacious Viswamitra always protect you
Word by wordHide word by word
धीमता by the sagacious, विश्वामित्रेण by Viswamitra, ते to you, यानि अस्त्राणि those weapons, दत्तानि were bestowed, तानि they, गुणैः with (mantric) qualities, समुदितम् endowed, त्वाम् you, सदा always, अभिरक्षन्तु may protect.
पितृशुश्रुषया पुत्र मातृशु श्रूषया तथा । सत्येन च महाबाहो चिरम् जीवाभिरक्षितः ॥ 6 ॥
O my mighty armed son protected by the service to your father, mother and to truth, live long
Word by wordHide word by word
महाबाहो O mighty armed, पुत्र son, पितृशुश्रूषया in the service of your father, तथा also, मातृशुश्रूषया in the service of your mother, सत्येन with truth, अभिरक्षितः you have been protected, चिरं जीव live long.
समित्कुशपवित्राणि वेद्यश्चायतनानि च । स्थण्ढिलानि विचित्राणि शैला वृक्षाः कुशुफा ह्रदाः ॥ 7 ॥
O best of men may sacrificial fuel, kusa grass and sacred rings made of kusha grass, sacrificial altars, temples, various levelled sacrificial grounds, mountains, trees, plants, lakes, birds, serpents and lions protect you
Word by wordHide word by word
नरोत्तम best among men, समित्कुश पवित्राणि sacrificial fuel, kusha grass and sacred finger rings made of kusa grass, वेद्यश्च sacrificial altars, आयतनानि च temples also, विचित्राणि various one, स्थण्डिलानि levelled sacrificial grounds, शैलाः mountains, वृक्षाः trees, क्षुपा: plants, ह्रदाः lakes, पतङ्गा: birds, पन्नगाः serpents, सिंहाः lions, त्वाम् you, रक्षन्तु may protect.
पतङ्गाः पन्नगाः सिम्हास्त्वाम् रक्षन्तु नरोत्तम । स्वस्ति साध्याः च विश्वे च मरुतः च महर्षयः ॥ 8 ॥
स्वस्ति धाता विधाता च स्वस्ति पूषा भगो अर्यमा । ऋतवः चैव पक्षाः च मासाः सम्वत्सराः क्षपाः ॥ 9 ॥
ऋतवश्चैव पक्षाश्च मासास्सम्वत्सराः क्षपाः । दिनानि च मुहूर्ताः च स्वस्ति कुर्वन्तु ते सदा ॥ 10 ॥
May the six seasons, years, months, fortnights, nights, days and moments bring good to you
Word by wordHide word by word
ऋतवश्चैव six seasons also, पक्षाश्च two fort nights, मासाः months, संवत्सराः years, क्षपा: nights, दिनानि च days also, मुहूर्ताश्च moments (each 48 minutes), ते to you, सदा always, स्वस्ति कुर्वन्तु may bring propitiousness to you.
स्मृतिर् धृतिः च धर्मः च पान्तु त्वाम् पुत्र सर्वतः । स्कन्दः च भगवान् देवः सोमः च सबृहस्पतिः ॥ 11 ॥
O my son may Smriti, Dhriti and Dharma always guard you. May divine personages and gods, Skanda, Soma, Brihaspati, the seven rishis and Narada protect you at all times
Word by wordHide word by word
पुत्र O my son, स्मृतिः memory, धृतिश्च resolution(Dhriti), धर्मश्च Dharma, त्वाम् you, सर्वतः always, पातु may guard, भगवान् of divine personages, देवः god, स्कन्दश्च Skanda, सोमश्च Soma, सः that, बृहस्पतिः Brihaspati (preceptor of gods), ते to you, सप्तर्षयः seven rishis, नारदश्च Narada, त्वाम् you, सर्वतः everywhere, रक्षन्तु protect you.
सप्त ऋषयो नारदः च ते त्वाम् रक्षन्तु सर्वतः । याश्चापि सर्वतः सिद्दा दिश्श्च सदिगीश्वराः ॥ 12 ॥
स्तुता मया वने तस्मिन् पान्तुत्वाम् पुत्र नित्यशः । शैलाः सर्वे समुद्राश्च राजा वरुण एव च ॥ 13 ॥
May Siddhas, guardians of the quarters invoked by me protect you from all directions in that forest at all times, O my son
Word by wordHide word by word
पुत्र O my son, सिद्धाः Siddhas, सदिगीश्वरा: along with the guardians of the quarters, याः दिशश्च those quarters, मया by me, स्तुताः are invoked, तस्मिन् वने in that forest, त्वाम् you, सर्वतः from all sides, नित्यशः at all times, पान्तु protect.
द्यौरन्तरिक्षम् पृथिवी नद्यस्सर्वास्तथैव च । नक्षत्राणि च सर्वाणि ग्रहाः च सहदेवताः ॥ 14 ॥
When you dwell in the forest may all the mountains, seas, lord Varuna, heaven, space, and earth and also all rivers, all stars and planets with their presiding deities, day, night, dawn and dusk protect you
Word by wordHide word by word
सर्वे all, शैलाः mountains, समुद्राश्च also seas, राजा lord, वरुण एव च Varuna, द्यौः the heaven, अन्तरिक्षम् the space, पृथिवी च the earth as well, तथैव च also, सर्वाः all, नद्यः rivers, सर्वाणि all, नक्षत्राणि च the stars, सहदेवताः together with their presiding deities, ग्रहाश्च planets, अहोरात्रे day and night, तथा and, सन्ध्ये dawn and dusk, आश्रितम् having taken refuge, त्वाम् you, पान्तु may protect.
अहोरात्रे तथा सन्ध्ये पान्तु त्वाम् वनमाश्रितम् । ऋतवश्चैव ष्ट्पुण्या मासाः सम्वत्सरास्तथा ॥ 15 ॥
कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते । महा वनानि चरतः मुनि वेषस्य धीमतः ॥ 16 ॥
तवादित्याश्च दैत्याश्च भवन्तु सुखदाः सदा । राक्षसानाम् पिशाचानाम् रौद्राणाम् क्रूरकर्मणाम् ॥ 17 ॥
क्रव्यादानाम् च सर्वेषम् माभूत्पुत्रक ते भयम् । प्लवगा वृश्चिका दम्शा मशकाः चैव कानने ॥ 18 ॥
सरी सृपाः च कीटाः च मा भूवन् गहने तव । महा द्विपाः च सिम्हाः च व्याघ्राऋक्षाः च दम्ष्ट्रिणः ॥ 19 ॥
महिषाः शृन्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक । नृ माम्स भोजना रौद्रा ये च अन्ये सत्त्व जातयः ॥ 20 ॥
मा च त्वाम् हिम्सिषुः पुत्र मया सम्पूजिताः तु इह । आगमाः ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः ॥ 21 ॥
सर्व सम्पत्तयो राम स्वस्तिमान् गच्च पुत्रक । स्वस्ति ते अस्तु आन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः ॥ 22 ॥
सर्वेभ्यः चैव देवेभ्यो ये च ते परिपन्थिनः । गुरुः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा ॥ 23 ॥
पान्तु त्वामर्चिता राम! दण्डकारण्यवासिनम् । अग्निर्वायुस्तथा धूमोमन्त्राश्चर्षिमुखाच्च्युताः ॥ 24 ॥
उपस्पर्शनकाले तु पान्तु त्वाम् रघुन्ददन । सर्व लोक प्रभुर् ब्रह्मा भूत भर्ता तथा ऋषयः ॥ 25 ॥
ये च शेषाः सुराः ते त्वाम् रक्षन्तु वन वासिनम् । इति माल्यैः सुर गणान् गन्धैः च अपि यशस्विनी ॥ 26 ॥
स्तुतिभिः च अनुरूपाभिर् आनर्च आयत लोचना । ज्वलनम् समुपादाय ब्राह्मणेन महात्मना ॥ 27 ॥
हावयामास विधिना राममङ्गलकारणात् । घृतम् श्वेतानि माल्यानि समिधः श्वेतसर्षपान् ॥ 28 ॥
उपसम्पादयामास कौसल्या पमाङ्गना । उपाध्यायः स विधिना हुत्व शान्तिमनामयम् ॥ 29 ॥
हुतहव्यावशेषेण बाह्यम् बलिमकल्पयत् । मधुदद्यक्षतघृतैः स्वस्तिवाच्य द्विजाम् स्ततः ॥ 30 ॥
वाचयामास रामस्य वने स्वस्त्ययनक्रियाः । ततस्तन्मै द्विजेन्द्राय राममाता यशस्विनी ॥ 31 ॥
दक्षिणाम् प्रददौ काम्याम् राघवम् चेदमब्रवीत् । यन् मन्गलम् सहस्र अक्षे सर्व देव नमः कृते ॥ 32 ॥
वृत्र नाशे समभवत् तत् ते भवतु मन्गलम् । यन् मन्गलम् सुपर्णस्य विनता अकल्पयत् पुरा ॥ 33 ॥
अमृतम् प्रार्थयानस्य तत् ते भवतु मन्गलम् । अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ॥ 34 ॥
अदितिर्मङ्गलम् प्रादात् तत्ते भवतु मङ्गलम् । तीन्विक्रमान् प्रकमतो विष्णोरमिततेजसः ॥ 35 ॥
यदासीन्मङ्गलम् प्रादात् तत्ते भवतु मङ्गलम् । ऋतवः सागरा द्वीपा वेदा लोका दिश्श्चते ॥ 36 ॥
मम्गलानि महाबाहो दिशन्तु शुभवङ्गलाः । इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी ॥ 37 ॥
गन्दाम्श्चापि समालभ्य राममायतलो चना । ओषधीम् च अपि सिद्ध अर्थाम् विशल्य करणीम् शुभाम् ॥ 38 ॥
The largeeyed Kausalya placed the remains of the offerings on his (Rama's) head and applied sandal cream to his body. She tied an auspicious medicinal herb known as Vishalyakarani to his arm for attainment of his objectives, repeatedly muttering prayers.
Word by wordHide word by word
आयतलोचना largeeyed lady, भामिनी beautiful lady, कौशल्या Kausalya, इति in this way uttering, पुत्रस्य son's, शिरसि on the head, शेषाश्च the remains (of offerings), कृत्वा having offered, रामम् Rama, गन्धैश्चापि with sandalpaste also, समालभ्य having applied, सिद्धार्थां for fruitful attainment, शुभाम् auspicious, विशल्यकरणीम् Vishalyakarani, (capable of removing extraneous substances causing great pain in the body), ओषधीम् medicinal herb, रक्षाम् armlet, चकार made, मन्त्रै: with sacred prayers, अभिजजाप च muttered repeatedly in a low tone.
चकार रक्षाम् कौसल्या मन्त्रैः अभिजजाप च । उवाचातिप्रहृष्टेव सा दुःखवशर्तिनी ॥ 39 ॥
वाङ्मात्रेण न भावेन वाचा सम्सज्जमानया । आनम्य मूर्ध्नि च आघ्राय परिष्वज्य यशस्विनी ॥ 40 ॥
अवदत् पुत्र सिद्ध अर्थो गच्च राम यथा सुखम् । अरोगम् सर्व सिद्ध अर्थम् अयोध्याम् पुनर् आगतम् ॥ 41 ॥
पश्यामि त्वाम् सुखम् वत्स सुस्थितम् राज वेश्मनि । प्रणष्टकुःखसम्कल्पा हर्षविद्योतितानना ॥ 42 ॥
द्रक्ष्यामि त्वाम् वनात्र्पाप्तम् पूर्णचन्द्रमिवोदितम् । भद्रासनगतम् राम वनवासादिहागतम् ॥ 43 ॥
When you return from the forest like the full Moon rising, I shall behold you with my anxieties gone and my face sparkling with joy.
Word by wordHide word by word
वनात् from the forest, प्राप्तम् having received, त्वाम् you, उदितम् rising, पूर्णचन्द्रमिव like full moon, प्रणष्टदुःखसंकल्पा having removed my sorrowful thoughts, हर्षविद्योतितानना my face sparkling with joy, द्रक्ष्यामि shall behold.
द्रक्षामि च पुनस्त्वाम् तु तीर्णवन्तम् पितुर्वचः । मङ्गशैरुपसम्पन्नो वनवासादिहागतः ॥ 44 ॥
After you have fulfilled your father's words and returned from your exile I shall behold you seated on the throne, O Rama
Word by wordHide word by word
राम O Rama, पितुः वचः father's words, तीर्णवन्तम् having crossed (fuliflled), वनवासात् from your exile, इह here, पुनः again, आगतम् having arrived, त्वाम् you, भद्रासनगतम् sitting on the throne, द्रक्ष्यामि I shall see.
पध्वा मम च नित्यम् त्वम् कामान् सम्वर्ध याहि भोः । मया अर्चिता देव गणाः शिव आदयो । महर्षयो भूत महा असुर उरगाः । अभिप्रयातस्य वनम् चिराय ते । हितानि कान्क्षन्तु दिशः च राघव ॥ 45 ॥
O son of the Raghu race Lord Siva and other gods, the great rishis, bhutas, great asuras and serpents and four quarters worshipped by me will always promote your welfare when you dwell in the forest.
Word by wordHide word by word
राघव O son of the Raghu race मया by me, अर्चिताः worshipped, शिवादयः Siva and others, देवगणाः gods, महर्षयः the great rishis, भूतमहासुरोरगाः bhutas, great asuras, serpents, दिशश्च four quarters, वनम् to the forest, अभिप्रयातस्य having exiled, ते your, हितानि welfare, चिराय for a long time, काङ्क्षन्तु may wish for.
इति इव च अश्रु प्रतिपूर्ण लोचना । समाप्य च स्वस्त्ययनम् यथा विधि । प्रदक्षिणम् चैव चकार राघवम् । पुनः पुनः च अपि निपीड्य सस्वजे ॥ 46 ॥
Thus with her eyes brimming with tears, she duly completed the benedictory rites and circumambulated the scion of the Raghus and embraced him again and again holding him tight.
Word by wordHide word by word
इतीव speaking thus, सा she, अश्रुप्रतिपूर्णलोचना eyes filled with tears, यथाविधि duly, स्वस्त्ययनम् benedictory rites, समाप्य च having completed, राघवम् to the descendant of the Raghu dynasty, प्रदक्षिणं चकार circumambulate, पुनः पुनः च अपि repeatedly, निपीड्य holding him tight, सस्वजे embraced.
तथा तु देव्या स कृत प्रदक्षिणो । निपीड्य मातुः चरणौ पुनः पुनः । जगाम सीता निलयम् महा यशाः । स राघवः प्रज्वलितः स्वया श्रिया ॥ 47 ॥
Circumambulated by mother Kausalya, the illustrious scion of the Raghu race clasped his mother's feet again and again. And shining in his glory, proceeded to the palace of Sita. इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे पञ्चविंशस्सर्गः।। Thus ends the twentyfifth sarga of Ayodhyakanda of the holy Ramayana, the first epic composed by sage Valmiki.
Word by wordHide word by word
देव्या by Devi Kausalya, तथा that way, कृतप्रदक्षिणः having circumambulated, सः Rama, मातुः his mothers, चरणौ feet, पुनः पुनः again and again, निपीड्य holding fast, महायशाः illustrious, सः राघवः that son of the Raghu race, स्वया by his own, श्रिया with glory, प्रज्वलितः glowing, सीतानिलयम् to the palace of Sita, जगाम went.
अयोध्याकाण्ड
सर्ग 25
Reach this point to mark the section finished.
Continue to सर्ग 26