तत् शुर्त्वा राज सिंहस्य वाक्यम् अद्भुत विस्तरम् । हृष्ट रोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥ 1 ॥
Having heard these wonderful words of Dasaratha, the lion among kings, the brilliant Viswamitra with hair on end replied:
Word by wordHide word by word
राजसिंहस्य of the lion among kings, Dasaratha, तत् अद्भुतविस्तरम् that astonishing detail, वाक्यम् words, श्रुत्वा having heard, महातेजा: highly vigorous, विश्वामित्र: Viswamitra, हृष्टरोमा: having hair on the body bristling with joy, अभ्यभाषत said.
सदृशम् राज शार्दूल तव एव भुवि न अन्यतः । महावंश प्रसूतस्य वसिष्ठ व्यपदेशिनः ॥ 2 ॥
"O Tiger among kings having been born on earth in an illustrious lineage and initiated by Vasishta, this way (of speaking) befits you. It cannot be any other way.
Word by wordHide word by word
राजशार्दूल O Tiger among kings, भुवि in this earth, महाकुलप्रसूतस्य having born in an illustrious line, वसिष्ठव्यपदेशिन: having been initiated by Vasishta, तव for you, एतत् this, सदृशम् befitting, न अन्यथा not in any other way.
यत् तु मे हृद् गतम् वाक्यम् तस्य कार्यस्य निश्चयम् । कुरुष्व राज शार्दूल भव सत्य प्रतिश्रवः ॥ 3 ॥
O Tiger among kings I shall unfold the purpose conceived in my mind. Take a decision and be truthful to your promise.
Word by wordHide word by word
राजशार्दूल O Great king, मे my, हृद्गतम् conceived in my mind, यत् whichever, वाक्यम् word, तस्य कार्यस्य for such purpose, निश्चयम् decision, कुरुष्व take, सत्यप्रतिश्रव: भव become truthful to your promise.
अहम् नियमम् आतिष्ठे सिध्द्यर्थम् पुरुषर्षभ । तस्य विघ्नकरौ द्वौ तु राक्षसौ काम रूपिणौ ॥ 4 ॥
O best among men for the successful completion of a sacrifice I took up a selfimposed religious observance. Two rakshasas, capable of assuming forms at will, are creating impediments to that sacrifice.
Word by wordHide word by word
पुरुषर्षभ O Best among men, अहम् I, सिध्यर्थम् for succesful accomplishment(of a sacrifice), नियमम् religious discipline, आतिष्ठे I shall abide, तु but, कामरूपिणौ those assuming forms at free will, द्वौ two, राक्षसौ rakshasas, तस्य for that sacrifice, विघ्नकरौ are creating impediments.
व्रते मे बहुशः चीर्णे समाप्त्याम् राक्षसाविमौ । मारीचः च सुबाहुः च वीर्यवन्तौ सुशिक्षितौ ॥ 5 ॥
When my sacrifice generally speaking, is nearing completion the powerful and welltrained Maricha and Subahu who are raining streams of blood and flesh upon the altar.
Word by wordHide word by word
बहुश: In many ways, चीर्णे performed, मे my, व्रते sacrifice, समाप्त्याम् nearing completion, वीर्यवन्तौ powerful, सुशिक्षितौ two welltrained beings, मारीचश्च Maricha, सुबाहुश्च and also Subahu, समांसरुधिरौघेण by the stream of blood along with flesh, तां वेदिम् that altar, अभ्यवर्षताम् rained.
तौ मांस रुधिर ओघेण वेदिम् ताम् अभ्यवर्षताम् । अवधूते तथा भूते तस्मिन् नियम निश्चये ॥ 6 ॥
कृत श्रमो निरुत्साहः तस्मात् देशात् अपाक्रमे । न च मे क्रोधम् उत्स्रष्टुम् बुद्धिः भवति पार्थिव ॥ 7 ॥
तथा भूता हि सा चर्या न शापः तत्र मुच्यते । स्व पुत्रम् राज शार्दूल रामम् सत्य पराक्रमम् ॥ 8 ॥
काक पक्ष धरम् शूरम् ज्येष्ठम् मे दातुम् अर्हसि । शक्तो हि येष मया गुप्तो दिव्येन स्वेन तेजसा ॥ 9 ॥
राक्षसा ये विकर्तारः तेषाम् अपि विनाशने । श्रेयः च अस्मै प्रदास्यामि बहुरूपम् न संशयः ॥ 10 ॥
त्रयाणाम् अपि लोकानाम् येन ख्यातिम् गमिष्यति । न च तौ रामम् आसाद्य शक्तौ स्थातुम् कथम् च न ॥ 11 ॥
न च तौ राघवात् अन्यो हन्तुम् उत्सहते पुमान् । वीर्य उत्सिक्तौ हि तौ पापौ काल पाश वशम् गतौ ॥ 12 ॥
रामस्य राज शार्दूल न पर्याप्तौ महात्मनः । न च पुत्र गतम् स्नेहम् कर्तुम् अर्हसि पार्थिव ॥ 13 ॥
अहम् ते प्रति जानामि हतौ तौ विद्धि राक्षसौ । अहम् वेद्मि महात्मानम् रामम् सत्य पराक्रमम् ॥ 14 ॥
वसिष्ठोऽपि महातेजा ये च इमे तपसि स्थिताः । यदि ते धर्म लाभम् तु यशः च परमम् भुवि ॥ 15 ॥
स्थिरम् इच्छसि राजेन्द्र रामम् मे दातुम् अर्हसि । यदि अभ्यनुज्ञाम् काकुत्स्थ ददते तव मंत्रिणः ॥ 16 ॥
वसिष्ठ प्रमुखाः सर्वे ततो रामम् विसर्जय । अभिप्रेतम् असंसक्तम् आत्मजम् दातुम् अर्हसि ॥ 17 ॥
दश रात्रम् हि यज्ञस्य रामम् राजीव लोचनम् । न अत्येति कालो यज्ञस्य यथा अयम् मम राघव ॥ 18 ॥
तथा कुरुष्व भद्रम् ते मा च शोके मनः कृथाः । इति एवम् उक्त्वा धर्मात्मा धर्मार्थ सहितम् वचः ॥ 19 ॥
विरराम महातेजा विश्वामित्रो महामतिः । स तन् निशम्य राजेन्द्रो विश्वामित्र वचः शुभम् ॥ 20 ॥
शोकेन महता आविष्टः चचाल च मुमोह च । लब्ध संज्ञः ततो उतथाय व्यषीदत भयान्वितः ॥ 21 ॥
इति हृदय मनो विदारणम्मुनि वचनम् तद् अतीव शुश्रुवान् । नरपतिः अभवत् महान् महात्माव्यथित मनाः प्रचचाल च असनात् ॥ 22 ॥
The great king felt shaken off his throne after listening to the words of the sage (Viswamitra) which broke his heart and terribly upset his mind. इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे एकोनविंशस्सर्ग:।। Thus ends the nineteenth sarga of Balakanda of the holy Ramayana the first epic composed by sage Valmiki.
Word by wordHide word by word
इति in this manner, हृदयमनोविदारणम् breaking the heart and mind, तत् मुनिवचनम् those words of sage Visvamitra, शश्रुवान् listened, महान् revered, नरपति: king, तदा then, अतीव व्यथितमना: अभवत् was exstreemly mentally agitated, आसनात् from his throne, चचाल च was shaken.
बालकाण्ड
सर्ग 19
Reach this point to mark the section finished.
Continue to सर्ग 20