धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 86

  1. [दुर] यद आह विरुदः कृष्णे सर्वं तत सत्यम उच्यते अनुरक्तॊ हय असंहार्यः पार्थान परति जनार्दनः ॥ 1 ॥

  2. यत तु सत्कारसंयुक्तं देयं वसु जनार्दने अनेकरूपं राजेन्द्र न तद देयं कदा चन ॥ 2 ॥

  3. देशः कालस तथायुक्तॊ न हि नार्हति केशवः मंस्यत्य अधॊक्षजॊ राजन भयाद अर्चति माम इति ॥ 3 ॥

  4. अवमानश च यत्र सयात कषत्रियस्य विशां पते न तत कुर्याद बुधः कार्यम इति मे निश्चिता मतिः ॥ 4 ॥

  5. स हि पूज्यतमॊ देवः कृष्णः कमललॊचनः तरयाणाम अपि लॊकानां विदितं मम सर्वथा ॥ 5 ॥

  6. न तु तस्मिन परदेयं सयात तथा कार्यगतिः परभॊ विग्रहः समुपारब्धॊ न हि शाम्यत्य अविग्रहात ॥ 6 ॥

  7. [व] तस्य तद वचनं शरुत्वा भीष्मः कुरुपितामहः वैचित्रवीर्यं राजानम इदं वचनम अब्रवीत ॥ 7 ॥

  8. सत्कृतॊ ऽसत्कृतॊ वापि न करुध्येत जनार्दनः नालम अन्यम अवज्ञातुम अवज्ञातॊ ऽपि केशवः ॥ 8 ॥

  9. यत तु कार्यं महाबाहॊ मनसा कार्यतां गतम सर्वॊपायैर न तच छक्यं केन चित कर्तुम अन्यथा ॥ 9 ॥

  10. स यद बरूयान महाबाहुस तत कार्यम अविशङ्कया वासुदेवेन तीर्थेन कषिप्रं संशाम्य पाण्डवैः ॥ 10 ॥

  11. धर्म्यम अर्थ्यं स धर्मात्मा धरुवं वक्ता जनार्दनः तस्मिन वाच्याः परिया वाचॊ भवता बान्धवैः सह ॥ 11 ॥

  12. [दुर] न पर्यायॊ ऽसति यद राजञ शरियं निष्केवलाम अहम तैः सहेमाम उपाश्नीयां जीवञ जीवैः पितामह ॥ 12 ॥

  13. इदं तु सुमहत कार्यं शृणु मे यत समर्थितम परायणं पाण्डवानां नियंस्यामि जनार्दनम ॥ 13 ॥

  14. तस्मिन बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा पाण्डवाश च विधेया मे स च परातर इहैष्यति ॥ 14 ॥

  15. अत्रॊपायं यथा सम्यङ न बुध्येत जनार्दनः न चापायॊ भवेत कश चित तद भवान परब्रवीतु मे ॥ 15 ॥

  16. [व] तस्य तद वचनं शरुत्वा घॊरं कृष्णाभिसंहितम धृतराष्ट्रः सहामात्यॊ वयथितॊ विमनाभवत ॥ 16 ॥

  17. ततॊ दुर्यॊधनम इदं धृतराष्ट्रॊ ऽबरवीद वचः मैवं वॊचः परजा पाल नैष धर्मः सनातनः ॥ 17 ॥

  18. दूतश च हि हृषीकेशः संबन्धी च परियश च नः अपापः कौरवेयेषु कथं बन्धनम अर्हति ॥ 18 ॥

  19. [भीस्म] परीतॊ धृतराष्ट्रायं तव पुत्रः सुमन्दधीः वृणॊत्य अनर्थं नत्व अर्थं याच्यमानः सुहृद्गणैः ॥ 19 ॥

  20. इमम उत्पथि वर्तन्तं पापं पापानुबन्धिनम वाक्यानि सुहृदां हित्वा तवम अप्य अस्यानुवर्तसे ॥ 20 ॥

  21. कृष्णम अक्लिष्टकर्माणम आसाद्यायं सुदुर्मतिः तव पुत्रः सहामात्यः कषणेन न भविष्यति ॥ 21 ॥

  22. पापस्यास्य नृशंसस्य तयक्तहर्मस्य दुर्मतेः नॊत्सहे ऽनर्थसंयुक्तां वाचं शरॊतुं कथं चन ॥ 22 ॥

  23. [व] इत्य उक्त्वा भरतश्रेष्ठॊ वृद्धः परममन्युमान उत्थाय तस्मात परातिष्ठद भीष्मः सत्यपराक्रमः ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 87

Previous: अध्याय 85