धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 62

  1. [दुर] सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम कथम एकान्ततस तेषां पार्थानां मन्यसे जयम ॥ 1 ॥

  2. सर्वे सम समजातीयाः सर्वे मानुषयॊनयः पितामह विजानीषे पार्थेषु विजयं कथम ॥ 2 ॥

  3. नाहं भवति न दरॊणे न कृपे न च बाह्लिके अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे ॥ 3 ॥

  4. अहं वैकर्तनः कर्णॊ भराता दुःशासनश च मे पाण्डवान समरे पञ्च हनिष्यामः शितैः शरैः ॥ 4 ॥

  5. ततॊ राजन महायज्ञैर विविधैर भूरिदक्षिणैः बराह्मणांस तर्पयिष्यामि गॊभिर अश्वैर धनेन च ॥ 5 ॥

  6. शकुनीनाम इहार्थाय पाशं भूमाव अयॊजयत कश चिच छाकुनिकस ताथ पूर्वेषाम इति शुश्रुम ॥ 6 ॥

  7. तस्मिन दवौ शकुनौ बद्धौ युगपत समपौरुषौ ताव उपादाय तं पाशं जग्मतुः खचराव उभौ ॥ 7 ॥

  8. तौ विहायसम आक्रान्तौ दृष्ट्वा शाकुनिकस तदा अन्वधावद अनिर्विण्णॊ येन येन सम गच्छतः ॥ 8 ॥

  9. तथा तम अनुधावन्तं मृगयुं शकुनार्थिनम आश्रमस्थॊ मुनिः कश चिद ददर्शाथ कृताह्निकः ॥ 9 ॥

  10. ताव अन्तरिक्षगौ शीघ्रम अनुयान्तं मही चरम शलॊकेनानेन कौरव्य पप्रच्छ स मुनिस तदा ॥ 10 ॥

  11. विचित्रम इदम आश्चर्यं मृगहन परतिभाति मे पलवमानौ हि खचरौ पदातिर अनुधावसि ॥ 11 ॥

  12. [षाकुनिक] पाशम एकम उभाव एतौ सहितौ हरतॊ मम यत्र वै विवदिष्येते तत्र मे वशम एष्यतः ॥ 12 ॥

  13. तौ विवादम अनुप्राप्तौ शकुनौ मृत्युसंधितौ विगृह्य च सुदुर्बुद्धी पृथिव्यां संनिपेततुः ॥ 13 ॥

  14. तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ उपसृत्यापरिज्ञातॊ जग्राह मृगयुस तदा ॥ 14 ॥

  15. एवं ये जञातयॊ ऽरथेषु मिथॊ गच्छन्ति विग्रहम ते ऽमित्रवशम आयान्ति शकुनाव इव विग्रहात ॥ 15 ॥

  16. संभॊजनं संकथनं संप्रश्नॊ ऽथ समागमः एतानि जञातिकार्याणि न विरॊधः कदा चन ॥ 16 ॥

  17. यस्मिन काले सुमनसः सर्वे वृद्धान उपासते सिंहगुप्तम इवारण्यम अप्रधृष्या भवन्ति ते ॥ 17 ॥

  18. ये ऽरथं संततम आसाद्य दीना इव समासते शरियं ते संप्रयच्छन्ति दविषद्भ्यॊ भरतर्षभ ॥ 18 ॥

  19. धूमायन्ते वयपेतानि जवलन्ति सहितानि च धृतराष्ट्रॊल्मुकानीव जञातयॊ भरतर्षभ ॥ 19 ॥

  20. इदम अन्यत परवक्ष्यामि यथादृष्टं गिरौ मया शरुत्वा तद अपि कौरव्य यथा शरेयस तथा कुरु ॥ 20 ॥

  21. वयं किरातैः सहिता गच्छामॊ गिरिम उत्तरम बराह्मणैर देवकल्पैश च विद्या जम्भक वातिकैः ॥ 21 ॥

  22. कुञ्ज भूतं गिरिं सर्वम अभितॊ गन्धमादनम दीप्यमानौषधि गणं सिद्धगन्धर्वसेवितम ॥ 22 ॥

  23. तत्र पश्यामहे सर्वे मधु पीतम अमाक्षिकम मरु परपाते विषमे निविष्टं कुम्भसंमितम ॥ 23 ॥

  24. आशीविषै रक्ष्यमाणं कुबेर दयितं भृशम यत पराश्य पुरुषॊ मर्त्यॊ अमरत्वं निगच्छति ॥ 24 ॥

  25. अचक्षुर लभते चक्षुर वृद्धॊ भवति वै युवा इति ते कथयन्ति सम बराह्मणा जम्भ साधकाः ॥ 25 ॥

  26. ततः किरातास तद दृष्ट्वा परार्थयन्तॊ महीपते विनेशुर विषमे तस्मिन ससर्पे गिरिगह्वरे ॥ 26 ॥

  27. तथैव तव पुत्रॊ ऽयं पृथिवीम एक इच्छति मधु पश्यति संमॊहात परपातं नानुपश्यति ॥ 27 ॥

  28. दुर्यॊधनॊ यॊद्धुमनाः समरे सव्यसाचिना न च पश्यामि तेजॊ ऽसय विक्रमं वा तथाविधम ॥ 28 ॥

  29. एकेन रथम आस्थाय पृथिवी येन निर्जिता परतीक्षमाणॊ यॊ वीरः कषमते वीक्षितं तव ॥ 29 ॥

  30. दरुपदॊ मत्स्यराजश च संक्रुद्धश च धनंजयः न शेषयेयुः समरे वायुयुक्ता इवाग्नयः ॥ 30 ॥

  31. अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम युध्यतॊर हि दवयॊर युद्धे नैकान्तेन भवेज जयः ॥ 31 ॥

Reach this point to mark the section finished.

Continue to अध्याय 63

Previous: अध्याय 61