[य] उत सन्तम असन्तं च बालं वृद्धं च संजय उताबलं बलीयांसं धाता परकुरुते वशे ॥ 1 ॥
उत बालाय पाण्डित्यं पण्डितायॊत बालताम ददाति सर्वम ईशानः पुरस्ताच छुक्रम उच्चरन ॥ 2 ॥
अलं विज्ञापनाय सयाद आचक्षीथा यथातथम अथॊ मन्त्रं मन्त्रयित्वा नयॊन्येनातिहृष्टवत ॥ 3 ॥
गावल्गणे कुरून गत्वा धृतराष्ट्रं महाबलम अभिवाद्यॊपसंगृह्य ततः पृच्छेर अनामयम ॥ 4 ॥
बरूयाश चैनं तवम आसीनं कुरुभिः परिवारितम तवैव राजन वीर्येण सुखं जीवन्ति पाण्डवाः ॥ 5 ॥
तव परसादाद बालास ते पराप्ता राज्यम अरिंदम राज्ये तान सथापयित्वाग्रे नॊपेक्षीर विनशिष्यतः ॥ 6 ॥
सर्वम अप्य एतद एकस्य नालं संजय कस्य चित तात संहत्य जीवामॊ मा दविषद्भ्यॊ वशं गमः ॥ 7 ॥
तथाभीष्मं शांतनवं भारतानां पितामहम शिरसाभिवदेथास तवं मम नाम परकीर्तयन ॥ 8 ॥
अभिवाद्य च वक्तव्यस ततॊ ऽसमाकं पितामह भवता शंतनॊर वंशॊ निमग्नः पुनर उद्धृतः ॥ 9 ॥
स तवं कुरु तथा तात सवमतेन पितामह यथा जीवन्ति ते पौत्राः परीतिमन्तः परस्परम ॥ 10 ॥
तथैव विदुरं बरूयाः कुरूणाम मन्त्रधारिणम अयुद्धं सौम्य भाषस्व हितकामॊ युधिष्ठिरः ॥ 11 ॥
अथॊ सुयॊधनं बरूया राजपुत्रम अमर्षणम मध्ये कुरूणाम आसीनम अनुनीय पुनः पुनः ॥ 12 ॥
अपश्यन माम उपेक्षन्तं कृष्णाम एकां सभा गताम तद्दुःखम अतितिक्षाम मा वधीष्म कुरून इति ॥ 13 ॥
एवं पूर्वापरान कलेशान अतितिक्षन्त पाण्डवाः यथाबलीयसः सन्तस तत सर्वं कुरवॊ विदुः ॥ 14 ॥
यन नः पराव्राजयः सौम्य अजिनैः परतिवासितान तद्दुःखम अतितिक्षाम मा वधीष्म कुरून इति ॥ 15 ॥
यत तत सभायाम आक्रम्य कृष्णां केशेष्व अधर्षयत दुःशासनस ते ऽनुमते तच चास्माभिर उपेक्षितम ॥ 16 ॥
यथॊचितं सवकं भागं लभेमहि परंतप निवर्तय परद्रव्ये बुद्धिं गृद्धां नरर्षभ ॥ 17 ॥
शान्तिर एवं भवेद राजन परीतिश चैव परस्परम राज्यैक देशम अपि नः परयच्छ शमम इच्छताम ॥ 18 ॥
कुश सथलं वृकस्थलम आसन्दी वारणावतम अवसानं भवेद अत्र किं चिद एव तु पञ्चमम ॥ 19 ॥
भरातॄणां देहि पञ्चानां गरामान पञ्च सुयॊधन शान्तिर नॊ ऽसतु महाप्राज्ञ जञातिभिः सह संजय ॥ 20 ॥
भराता भरातरम अन्वेतु पिता पुत्रेण युज्यताम समयमानाः समायान्तु पाञ्चालाः कुरुभिः सह ॥ 21 ॥
अक्षतान कुरुपाञ्चालान पश्येम इति कामये सर्वे सुमनसस तात शाम्याम भरतर्षभ ॥ 22 ॥
अलम एव शमायास्मि तथा युद्धाय संजय धर्मार्थयॊर अलं चाहं मृदवे दारुणाय च ॥ 23 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 31
Reach this point to mark the section finished.
Continue to अध्याय 32