धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 195

  1. वैशंपायन उवाच एतच छरुत्वा तु कौन्तेयः सर्वान भरातॄन उपह्वरे आहूय भरतश्रेष्ठ इदं वचनम अब्रवीत ॥ 1 ॥

  2. धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम ते परवृत्तिं परयच्छन्ति ममेमां वयुषितां निशाम ॥ 2 ॥

  3. दुर्यॊधनः किलापृच्छद आपगेयं महाव्रतम केन कालेन पाण्डूनां हन्याः सैन्यम इति परभॊ ॥ 3 ॥

  4. मासेनेति च तेनॊक्तॊ धार्तराष्ट्रः सुदुर्मतिः तावता चापि कालेन दरॊणॊ ऽपि परत्यजानत ॥ 4 ॥

  5. गौतमॊ दविगुणं कालम उक्तवान इति नः शरुतम दरौणिस तु दशरात्रेण परतिजज्ञे महास्त्रवित ॥ 5 ॥

  6. तथा दिव्यास्त्रवित कर्णः संपृष्टः कुरुसंसदि पञ्चभिर दिवसैर हन्तुं स सैन्यं परतिजज्ञिवान ॥ 6 ॥

  7. तस्माद अहम अपीच्छामि शरॊतुम अर्जुन ते वचः कालेन कियता शत्रून कषपयेर इति संयुगे ॥ 7 ॥

  8. एवम उक्तॊ गुडाकेशः पार्थिवेन धनंजयः वासुदेवम अवेक्ष्येदं वचनं परभ्यभाषत ॥ 8 ॥

  9. सर्व एते महात्मानः कृतास्त्राश चित्रयॊधिनः असंशयं महाराज हन्युर एव बलं तव ॥ 9 ॥

  10. अपैतु ते मनस्तापॊ यथासत्यं बरवीम्य अहम हन्याम एकरथेनाहं वासुदेवसहायवान ॥ 10 ॥

  11. सामरान अपि लॊकांस तरीन सहस्थावरजङ्गमान भूतं भव्यं भविष्यच च निमेषाद इति मे मतिः ॥ 11 ॥

  12. यत तद घॊरं पशुपतिः परादाद अस्त्रं महन मम कैराते दवन्द्वयुद्धे वै तद इदं मयि वर्तते ॥ 12 ॥

  13. यद युगान्ते पशुपतिः सर्वभूतानि संहरन परयुङ्क्ते पुरुषव्याघ्र तद इदं मयि वर्तते ॥ 13 ॥

  14. तन न जानाति गाङ्गेयॊ न दरॊणॊ न च गौतमः न च दरॊणसुतॊ राजन कुत एव तु सूतजः ॥ 14 ॥

  15. न तु युक्तं रणे हन्तुं दिव्यैर अस्त्रैः पृथग्जनम आर्जवेनैव युद्धेन विजेष्यामॊ वयं परान ॥ 15 ॥

  16. तथेमे पुरुषव्याघ्राः सहायास तव पार्थिव सर्वे दिव्यास्त्रविदुषः सर्वे युद्धाभिनन्दिनः ॥ 16 ॥

  17. वेदान्तावभृथस्नाताः सर्व एते ऽपराजिताः निहन्युः समरे सेनां देवानाम अपि पाण्डव ॥ 17 ॥

  18. शिखण्डी युयुधानश च धृष्टद्युम्नश च पार्षतः भीमसेनॊ यमौ चॊभौ युधामन्यूत्तमौजसौ ॥ 18 ॥

  19. विराटद्रुपदौ चॊभौ भीष्मद्रॊणसमौ युधि सवयं चापि समर्थॊ ऽसि तरैलॊक्यॊत्सादने अपि ॥ 19 ॥

  20. करॊधाद यं पुरुषं पश्येस तवं वासवसमद्युते कषिप्रं न स भवेद वयक्तम इति तवां वेद्मि कौरव ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 196

Previous: अध्याय 194