धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 61

  1. [वै] आहूयमानस तु स तेन संख्ये; महामना धृतराष्ट्रस्य पुत्रः निवर्तितस तस्य गिराङ्कुशेन; गजॊ यथामत्त इवाङ्कुशेन ॥ 1 ॥

  2. सॊ ऽमृष्यमाणॊ वचसाभिमृष्टॊ; महारथेनाति रथस तरस्वी पर्याववर्ताथ रथेन वीरॊ; भॊगी यथा पादतलाभिमृष्टः ॥ 2 ॥

  3. तं परेक्ष्य कर्णः परिवर्तमानं; निवर्त्य संस्तभ्य च विद्ध गात्रः दुर्यॊधनं दक्षिणतॊ ऽभयगच्छत; पार्थं नृवीरॊ युधि हेममाली ॥ 3 ॥

  4. भीष्मस ततः शांतनवॊ निवृत्य; हिरण्यकक्ष्यांस तवरयंस तुरंगान दुर्यॊधनं पश्चिमतॊ ऽभयरक्षत; पार्थान महाबाहुर अधिज्य धन्वा ॥ 4 ॥

  5. दरॊणः कृपश चैव विविंशतिश च; दुःशासनश चैव निवृत्य शीघ्रम सर्वे पुरस्ताद विततेषु चापा; दुर्यॊधनार्थं तवरिताभ्युपेयुः ॥ 5 ॥

  6. स तान्य अनीकानि निवर्तमानान्य; आलॊक्य पूर्णौघनिभानि पार्थः हंसॊ यथा मेघम इवापतन्तं; धनंजयः परत्यपतत तरस्वी ॥ 6 ॥

  7. ते सर्वतः संपरिवार्य पार्थम; अस्त्राणि दिव्यानि समाददानाः ववर्षुर अभ्येत्य शरैः समन्तान; मेघा यथा भूधरम अम्बुवेगैः ॥ 7 ॥

  8. ततॊ ऽसत्रम अस्त्रेण निवार्य तेषां; गाण्डीवधन्वा कुरुपुंगवानाम संमॊहनं शत्रुसहॊ ऽनयद अस्त्रं; परादुश्चकारैन्द्रिर अपारणीयम ॥ 8 ॥

  9. ततॊ दिशश चानुदिशॊ विवृत्य; शरैः सुधारैर निशितैः सुपुङ्खैः गाण्डीवघॊषेण मनांसि तेषां; महाबलः परव्यथयां चकार ॥ 9 ॥

  10. ततः पुनर भीमरवं परगृह्य; दॊर्भ्यां महाशङ्खम उदारघॊषम वयनादयत स परदिशॊ दिशः खं; भुवं च पार्थॊ दविषतां निहन्ता ॥ 10 ॥

  11. ते शङ्खनादेन कुरुप्रवीराः; संमॊहिताः पार्थ समीरितेन उत्सृज्य चापानि दुरासदानि; सर्वे तदा शान्ति परा बभूवुः ॥ 11 ॥

  12. तथा विसंज्ञेषु परेषु पार्थः; समृत्वा तु वाक्यानि तथॊत्तरायाः निर्याहि मध्याद इति मत्स्यपुत्रम; उवाच यावत कुरवॊ विसंज्ञाः ॥ 12 ॥

  13. आचार्य शारद्वतयॊः सुशुक्ले; कर्णस्य पीतं रुचिरं च वस्त्रम दरौणेश च राज्ञश च तथैव नीले; वस्त्रे समादत्स्व नरप्रवीर ॥ 13 ॥

  14. भीष्मस्य संज्ञां तु तथैव मन्य; जानाति मे ऽसत्रप्रतिघातम एषः एतस्य वाहान कुरु सव्यतस तवम; एवं हि यातव्यम अमूढ संज्ञैः ॥ 14 ॥

  15. रश्मीन समुत्सृज्य ततॊ महात्मा; रथाद अवप्लुत्य विराट पुत्रः वस्त्राण्य उपादाय महारथानां; तूर्णं पुनः सवं रथम आरुरॊह ॥ 15 ॥

  16. ततॊ ऽनवशासच चतुरः सदश्वान; पुत्रॊ विराटस्य हिरण्यकक्ष्यान ते तद वयतीयुर धवजिनाम अनीकं; शवेता वहन्तॊ ऽरजुनम आजिमध्यात ॥ 16 ॥

  17. तथा तु यान्तं पुरुषप्रवीरं; भीष्मः शरैर अभ्यहनत तरस्वी स चापि भीष्मस्य हयान निहत्य; विव्याध पार्श्वे दशभिः पृषत्कैः ॥ 17 ॥

  18. ततॊ ऽरजुनॊ भीष्मम अपास्य युद्धे; विद्ध्वास्य यन्तारम अरिष्टधन्वा तस्थौ विमुक्तॊ रथवृन्दमध्याद; राहुं विदार्येव सहस्ररश्मिः ॥ 18 ॥

  19. लब्ध्वा तु संज्ञां च कुरुप्रवीरः; पार्थं समीक्ष्याथ महेन्द्रकल्पम रणाद विमुक्तं सथितम एकम आजौ; स धार्तराष्ट्रस तवरितॊ बभाषे ॥ 19 ॥

  20. अयं कथं सविद भवतां विमुक्तस; तं वै परबध्नीत यथा न मुच्येत तम अब्रवीच छांतनवः परहस्य; कव ते गता बुद्धिर अभूत कव वीर्यम ॥ 20 ॥

  21. शान्तिं पराश्वस्य यथा सथितॊ ऽभूर; उत्सृज्य बाणांश च धनुश च चित्रम न तव एव बीभत्सुर अलं नृशंसं; कर्तुं न पापे ऽसय मनॊ निविष्टम ॥ 21 ॥

  22. तरैलॊक्यहेतॊर न जहेत सवधर्मं; तस्मान न सर्वे निहता रणे ऽसमिन कषिप्रं कुरून याहि कुरुप्रवीर; विजित्य गाश च परतियातु पार्थः ॥ 22 ॥

  23. दुर्यॊधनस तस्य तु तन निशम्य; पितामहस्यात्म हितं वचॊ ऽथ अतीतकामॊ युधि सॊ ऽतय अमर्षी; राजा विनिःश्वस्य बभूव तूष्णीम ॥ 23 ॥

  24. तद भीष्म वाक्यं हितम ईक्ष्य सर्वे; धनंजयाग्निं च विवर्धमानम निवर्तनायैव मनॊ निदध्युर; दुर्यॊधनं ते परिरक्षमाणाः ॥ 24 ॥

  25. तान परस्थितान परीतमनाः स पार्थॊ; धनंजयः परेक्ष्य कुरुप्रवीरान आभाषमाणॊ ऽनुययौ मुहूर्तं; संपूजयंस तत्र गुरून महात्मा ॥ 25 ॥

  26. पितामहं शांतनवं स वृद्धं; दरॊणं गुरुं च परतिपूज्य मूर्ध्ना दरौणिं कृपं चैव गुरूंश च सर्वाञ; शरैर विचित्रैर अभिवाद्य चैव ॥ 26 ॥

  27. दुर्यॊधनस्यॊत्तम रत्नचित्रं; चिच्छेद पार्थॊ मुकुटं शरेण आमन्त्र्य वीरांश च तथैव मान्यान; गाण्डीवघॊषेण विनाद्य लॊकान ॥ 27 ॥

  28. स देवदत्तं सहसा विनाद्य; विदार्य वीरॊ दविषतां मनांसि धवजेन सर्वान अभिभूय शत्रून; स हेमजालेन विराजमानः ॥ 28 ॥

  29. दृष्ट्वा परयातांस तु कुरून किरीटी; हृष्टॊ ऽबरवीत तत्र स मत्स्यपुत्रम आवर्तयाश्वान पशवॊ जितास ते; याताः परे याहि पुरं परहृष्टः ॥ 29 ॥

Reach this point to mark the section finished.

Continue to अध्याय 62

Previous: अध्याय 60