धर्मDharmic Data

विराटपर्व · Virata Parva

अध्याय 34

  1. [उत्तर] अद्याहम अनुगच्छेयं दृढधन्वा गवां पदम यदि मे सारथिः कश चिद भवेद अश्वेषु कॊविदः ॥ 1 ॥

  2. तम एव नाधिगच्छामि यॊ मे यन्ता भवेन नरः पश्यध्वं सारधिं कषिप्रं मम युक्तं परयास्यतः ॥ 2 ॥

  3. अष्टाविंशति रात्रं वा मासं वा नूनम अन्ततः यत तद आसी महद युद्धं तत्र मे सारथिर हतः ॥ 3 ॥

  4. स लभेयं यदि तव अन्यं हर यानविदं नरम तवरावान अद्य यात्वाहं समुच्छ्रितमहाध्वजम ॥ 4 ॥

  5. विगाह्य तत्परानीकं गजवाजिर अथाकुलम शस्त्रप्रताप निर्वीर्यान कुरूञ जित्वानये पशून ॥ 5 ॥

  6. दुर्यॊधनं शांतनवं कर्णं वैकर्तनं कृपम दरॊणं च सह पुत्रेण महेष्वासान समागतान ॥ 6 ॥

  7. वित्रासयित्वा संग्रामे दानवान इव वज्रभृत अनेनैव मुहूर्तेन पुनः परत्यानये पशून ॥ 7 ॥

  8. शून्यम आसाद्य कुरवः परयान्त्य आदाय गॊधनम किं नु शक्यं मया कर्तुं यद अहं तत्र नाभवम ॥ 8 ॥

  9. पश्येयुर अद्य मे वीर्यं कुरवस ते समागताः किं नु पार्थॊ ऽरजुनः साक्षाद अयम अस्मान परबाधते ॥ 9 ॥

  10. [वै] तस्य तद वचनं सत्रीषु भाषतः सम पुनः पुनः नामर्षयत पाञ्चाली बीभत्सॊः परिकीर्तनम ॥ 10 ॥

  11. अथैनम उपसंगम्य सत्रीमध्यात सा तपस्विनी वरीडमानेव शनकैर इदं वचनम अब्रवीत ॥ 11 ॥

  12. यॊ ऽसौ बृहद वारणाभॊ युवा सुप्रिय दर्शनः बृहन्नडेति विख्यातः पार्थस्यासीत स सारथिः ॥ 12 ॥

  13. धनुष्य अनवरश चासीत तस्य शिष्यॊ महात्मनः दृष्टपूर्वॊ मया वीर चरन्त्या पाण्डवान परति ॥ 13 ॥

  14. यदा तत पावकॊ दावम अदहत खाण्डवं महत अर्जुनस्य तदानेन संगृहीता हयॊत्तमाः ॥ 14 ॥

  15. तेन सारथिना पार्थः सर्वभूतानि सर्वशः अजयत खाण्डव परस्थे न हि यन्तास्ति तादृशः ॥ 15 ॥

  16. येयं कुमारी सुश्रॊणी भगिनी ते यवीयसी अस्याः स वचनं वीरकरिष्यति न संशयः ॥ 16 ॥

  17. यदि वै सारथिः स सयात कुरून सर्वान असंशयम जित्वा गाश च समादाय धरुवम आगमनं भवेत ॥ 17 ॥

  18. एवम उक्तः स सैरन्ध्या भगिनीं परत्यभाषत गच्छ तवम अनवद्याङ्गि ताम आनय बृहन्नडाम ॥ 18 ॥

  19. सा भरात्रा परेषिता शीघ्रम अगच्छन नर्तना गृहम यत्रास्ते स महाबाहुश छन्नः सत्रेण पाण्डवः ॥ 19 ॥

Reach this point to mark the section finished.

Continue to अध्याय 35

Previous: अध्याय 33