[व] स तत्र ताम उषित्वैकां रजनीं पृथिवीपतिः तापसानां परं चक्रे सत्कारं भरातृभिः सह ॥ 1 ॥
लॊमशश चास्य तान सर्वान आचख्यौ तत्र तापसान भृगून अङ्गिरसश चैव वासिष्ठान अथ काश्यपान ॥ 2 ॥
तान समेत्य स राजर्षिर अभिवाद्य कृताञ्जलिः रामस्यानुचरं वीरम अपृच्छद अकृतव्रणम ॥ 3 ॥
कदा नु रामॊ भग वांस तापसान दर्शयिष्यति तेनैवाहं परसङ्गेन दरष्टुम इच्छामि भार्गवम ॥ 4 ॥
[अक] आयान एवासि विदितॊ रामस्य विदितात्मनः परीतिस तवयि च रामस्य कषिप्रं तवां दर्शयिष्यति ॥ 5 ॥
चतुर्दशीम अष्टमीं च रामं पश्यन्ति तापसाः अस्यां रात्र्यां वयतीतायां भवित्री च चतुर्दशी ॥ 6 ॥
[य] भवान अनुगतॊ वीरं जामदग्न्यं महाबलम परत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणाः ॥ 7 ॥
स भवान कथयत्व एतद यथा रामेण निर्जिताः आहवे कषत्रियाः सर्वे कथं केन च हेतुना ॥ 8 ॥
[अक] कन्यकुब्जे महान आसीत पार्थिवः सुमहाबलः गाधीति विश्रुतॊ लॊके वनवासं जगाम सः ॥ 9 ॥
वने तु तस्य वसतः कन्या जज्ञे ऽपसरः समा ऋचीकॊ भार्गवस तां च वरयाम आस भारत ॥ 10 ॥
तम उवाच ततॊ राजा बराह्मणं संशितव्रतम उचितं नः कुले किं चित पूर्वैर यत संप्रवर्तितम ॥ 11 ॥
एकतः शयाम कर्णानां पाण्डुराणां तरॊ विनाम सहस्रं वाजिनां शुल्कम इति विद्धि दविजॊत्तम ॥ 12 ॥
न चापि भगवान वाच्यॊ दीयताम इति भार्गव देया मे दुहिता चेयं तवद्विधाय महात्मने ॥ 13 ॥
[रच] एकतः शयाम कर्णानां पाण्डुराणां तरॊ विनाम दास्याम्य अश्वसहस्रं ते मम भार्या सुतास्तु ते ॥ 14 ॥
[अक] स तथेति परतिज्ञाय राजन वरुणम अब्रवीत एकतः शयाम कर्णानां पाण्डुराणां तरॊ विनाम सहस्रं वाजिनाम एकं शुल्कार्थं मे परदीयताम ॥ 15 ॥
तस्मै परादात सहस्रं वै वाजिनां वरुणस तदा तद अश्वतीर्थं विख्यातम उत्थिता यत्र ते हयाः ॥ 16 ॥
गङ्गायां कन्यकुब्जे वै ददौ सत्यवतीं तदा ततॊ गाधिः सुतां तस्मै जन्याश चासन सुरास तदा लब्ध्वा हयसहस्रं तु तांश च दृष्ट्वा दिवौकसः ॥ 17 ॥
धर्मेण लब्ध्वा तां भार्याम ऋचीकॊ दविजसत्तमः यथाकामं यथाजॊषं तया रेमे सुमध्यया ॥ 18 ॥
तं विवाहे कृते राजन सभार्यम अवलॊककः आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च ॥ 19 ॥
भार्या पती तम आसीनं गुरुं सुरगणार्चितम अर्चित्वा पर्युपासीनौ पराञ्जलीतस्थतुस तदा ॥ 20 ॥
ततः सनुषां स भगवान परहृष्टॊ भृगुर अब्रवीत वरं वृणीष्व सुभगे दाता हय अस्मि तवेप्सितम ॥ 21 ॥
सा वै परसादयाम आस तं गुरुं पुत्रकारणात आत्मनश चैव मातुश च परसादं च चकार सः ॥ 22 ॥
[भृ] ऋतौ तवं चैव माता च सनाते पुंसवनाय वै आलिङ्गेतां पृथग वृक्षौ साश्वत्थं तवम उदुम्बरम ॥ 23 ॥
आलिङ्गने तु ते राजंश चक्रतुः सम विपर्ययम कदा चिद भृगुर आगच्छत तं च वेद विपर्ययम ॥ 24 ॥
अथॊवाच महातेजॊ भृगुः सत्यवतीं सनुषाम बराह्मणः कषत्रवृत्तिर वै तव पुत्रॊ भविष्यति ॥ 25 ॥
कषत्रियॊ बराह्मणाचारॊ मातुस तव सुतॊ महान भविष्यति महावीर्यः साधूनां मार्गम आस्थितः ॥ 26 ॥
ततः परसादयाम आस शवशुरं सा पुनः पुनः न मे पुत्रॊ भवेद ईदृक कामं पौत्रॊ भवेद इति ॥ 27 ॥
एवम अस्त्व इति सा तेन पाण्डव परतिनन्दिता जमदग्निं ततः पुत्रं सा जज्ञे काल आगते तेजसा वर्चसा वैच युक्तं भार्गवनन्दनम ॥ 28 ॥
स वर्धमानस तेजॊ वी वेदस्याध्ययनेन वै बहून ऋषीन महातेजाः पाण्डवेयात्यवर्तत ॥ 29 ॥
तं तु कृत्स्नॊ धनुर्वेदः परत्यभाद भरतर्षभ चतुर्विधानि चास्त्राणि भाः करॊपम वर्चसम ॥ 30 ॥
वनपर्व · Vana Parva
अध्याय 115
Reach this point to mark the section finished.
Continue to अध्याय 116