[व] एतस्मिन्न एव काले तु भीमसेनॊ ऽपि वीर्यवान धर्मराजम अनुज्ञाप्य ययौ पराचीं दिशं परति ॥ 1 ॥
महता बलचक्रेण परराष्ट्रावमर्दिना वृतॊ भरतशार्दूलॊ दविषच छॊकविवर्धनः ॥ 2 ॥
स गत्वा राजशार्दूलः पाञ्चालानां पुरं महत पाञ्चालान विविधॊपायैः सान्त्वयाम आस पाण्डवः ॥ 3 ॥
ततः सगण्डकीं शूरॊ विदेहांश च नरर्षभः विजित्याल्पेन कालेन दशार्णान अगमत परभुः ॥ 4 ॥
तत्र दाशार्हकॊ राजा सुधर्मा लॊमहर्षणम कृतवान कर्म भीमेन महद युद्धं निरायुधम ॥ 5 ॥
भीमसेनस तु तद दृष्ट्वा तस्य कर्म परंतपः अधिसेना पतिं चक्रे सुधर्माणं महाबलम ॥ 6 ॥
ततः पराचीं दिशं भीमॊ ययौ भीमपराक्रमः सैन्येन महता राजन कम्पयन्न इव मेदिनीम ॥ 7 ॥
सॊ ऽशवमेधेश्वरं राजन रॊचमानं सहानुजम जिगाय समरे वीरॊ बलेन बलिनां वरः ॥ 8 ॥
स तं निर्जित्य कौन्तेयॊ नातितीव्रेण कर्मणा पूर्वदेशं महावीर्यॊ विजिग्ये कुरुनन्दनः ॥ 9 ॥
ततॊ दक्षिणम आगम्य पुलिन्द नगरं महत सुकुमारं वशे चक्रे सुमित्रं च नराधिपम ॥ 10 ॥
ततस तु धर्मराजस्य शासनाद भरतर्षभः शिशुपालं महावीर्यम अभ्ययाज जनमेजय ॥ 11 ॥
चेदिराजॊ ऽपि तच छरुत्वा पाण्डवस्य चिकीर्षितम उपनिष्क्रम्य नगरात परत्यगृह्णात परंतपः ॥ 12 ॥
तौ समेत्य महाराज कुरु चेदिवृषौ तदा उभयॊर आत्मकुलयॊः कौशल्यं पर्यपृच्छताम ॥ 13 ॥
ततॊ निवेद्य तद राष्ट्रं चेदिराजॊ विशां पते उवाच भीमं परहसन किम इदं कुरुषे ऽनघ ॥ 14 ॥
तस्य भीमस तदाचख्यौ धर्मराज चिकीर्षितम स च तत परतिगृह्यैव तथा चक्रे नराधिपः ॥ 15 ॥
ततॊ भीमस तत्र राजन्न उषित्वा तरिदशाः कषपाः सत्कृतः शिशुपालेन ययौ सबलवाहनः ॥ 16 ॥
सभापर्व · Sabha Parva
अध्याय 26
Reach this point to mark the section finished.
Continue to अध्याय 27