धर्मDharmic Data

आश्रमवासिकपर्व · Ashramavasika Parva

अध्याय 11

  1. [धृ] मण्डलानि च बुध्येथाः परेषाम आत्मनस तथा उदासीनगुणानां च मध्यमानां तथैव च ॥ 1 ॥

  2. चतुर्णां शत्रुजातानां सर्वेषाम आततायिनाम मित्रं चामित्रमित्रं च बॊद्धव्यं ते ऽरिकर्शन ॥ 2 ॥

  3. तथामात्या जनपदा दुर्गाणि विषमाणि च बलानिच कुरुश्रेष्ठ भवन्त्य एषां यथेच्च्छकम ॥ 3 ॥

  4. ते च दवादश कौन्तेय राज्ञां वै विविधात्मकाः मन्त्रिप्रधानाश च गुणाः षष्टिर दवादश च परभॊ ॥ 4 ॥

  5. एतान मण्डलम इत्य आहुर आचार्या नीतिकॊविदाः अत्र षाड्गुण्यम आयत्तं युधिष्ठिर निबॊध तत ॥ 5 ॥

  6. वृद्धिक्षयौ च विज्ञेयौ सथानं च कुरुनन्दन दविसप्तत्या महाबाहॊ ततः षाड्गुण्य चारिणः ॥ 6 ॥

  7. यदा सवपक्षॊ बलवान परपक्षस तथा बलः विगृह्य शत्रून कौन्तेय यायात कषितिपतिस तदा यदा सवपक्षे ऽबलवांस तदा संधिं समाश्रयेत ॥ 7 ॥

  8. दरव्याणां संचयश चैव कर्तव्यः सयान महांस तथा यदा समर्थॊ यानाय नचिरेणैव भारत ॥ 8 ॥

  9. तदा सर्वं विधेयं सयात सथानं च न विभाजयेत भूमिर अल्पफला देया विपरीतस्य भारत ॥ 9 ॥

  10. हिरण्यं कुप्य भूयिष्ठं मित्रं कषीणम अकॊशवत विपरीतान न गृह्णीयात सवयं संधिविशारदः ॥ 10 ॥

  11. संध्यर्थं राजपुत्रं च लिप्सेथा भरतर्षभ वविपरीतस तु ते ऽदेयः पुत्र कस्यां चिद आपदि तस्य परमॊक्षे यत्नं च कुर्याः सॊपाय मन्त्रवित ॥ 11 ॥

  12. परकृतीनां च कौन्तेय राजा दीनां विभावयेत करमेण युगपद दवंद्वं वयसनानां बलाबलम ॥ 12 ॥

  13. पीडनं सतम्भनं चैव कॊशभङ्गस तथैव च कार्यं यत्नेन शत्रूणां सवराष्ट्रं रक्षता सवयम ॥ 13 ॥

  14. न च हिंस्यॊ ऽभयुपगतः सामन्तॊ वृद्धिम इछता कौन्तेय तं न हिंसेत यॊ महीं विजिगीषते ॥ 14 ॥

  15. गणानां भेदने यॊगं गच्छेथाः सह मन्त्रिभिः साधु संग्रहणाच चैव पापनिग्रहणात तथा ॥ 15 ॥

  16. दुर्बलाश चापि सततं नावष्टभ्या बलीयसा तिष्ठेथा राजशार्दूल वैतसीं वृत्तिम आस्थितः ॥ 16 ॥

  17. यद्य एवम अभियायाच च दुर्बलं बलवान नृपः सामादिभिर उपायैस तं करमेण विनिवर्तयेत ॥ 17 ॥

  18. अशक्नुवंस तु युद्धाय निस्पतेत सह मन्त्रिभिः कॊशेन पौरैर दण्डेन ये चान्ये परियकारिणः ॥ 18 ॥

  19. असंभवे तु सर्वस्य यथामुख्येन निष्पतेत करमेणानेन मॊक्षः सयाच छरीरम अपि केवलम ॥ 19 ॥

Reach this point to mark the section finished.

Continue to अध्याय 12

Previous: अध्याय 10