धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 88

  1. [य] किं सविद दत्तं पितृभ्यॊ वै भवत्य अक्षयम ईश्वर किं हविश चिररात्राय किम आनन्त्याय कल्पते ॥ 1 ॥

  2. [भ] हवींषि शराद्धकल्पे तु यानि शराद्धविदॊ विदुः तानि मे शृणु काम्यानि फलं चैव युधिष्ठिर ॥ 2 ॥

  3. तिलैर वरीहि यवैर माषैर अद्भिर मूलफलैस तथा दत्तेन मासं परीयन्ते शराद्धेन पितरॊ नृप ॥ 3 ॥

  4. वर्धमानतिलं शराद्धम अक्षयं मनुर अब्रवीत सर्वेष्व एव तु भॊज्येषु तिलाः पराधान्यतः समृताः ॥ 4 ॥

  5. दवौ मासौ तु भवेत तृप्तिर मत्स्यैः पितृगणस्य ह तरीन मासान आविकेनाहुश चातुर्मास्यं शशेन तु ॥ 5 ॥

  6. आजेन मासान परीयन्ते पञ्चैव पितरॊ नृप वाराहेण तु षण मासान सप्त वै शाकुनेन तु ॥ 6 ॥

  7. मासान अष्टौ पार्षतेन रौरवेण नवैव तु गवयस्य तु मांसेन तृप्तिः सयाद दश मासिकी ॥ 7 ॥

  8. मासान एकादश परीतिः पितॄणां माहिषेण तु गव्येन दत्ते शराद्धे तु संवत्सरम इहॊच्यते ॥ 8 ॥

  9. यथा गव्यं तथायुक्तं पायसं सर्पिषा सह वाध्रीणसस्य मांसेन तृप्तिर दवादश वार्षिकी ॥ 9 ॥

  10. आनन्त्याय भवेद दत्तं खड्गमांसं पितृक्षये कालशाकं च लौहं चाप्य आनन्त्यं छाग उच्यते ॥ 10 ॥

  11. गाथाश चाप्य अत्र गायन्ति पितृगीता युधिष्ठिर सनत्सुमारॊ भगवान पुरा मय्य अभ्यभाषत ॥ 11 ॥

  12. अपि नः स कुले जायाद यॊ नॊ दद्यात तरयॊदशीम मघासु सर्पिषा युक्तं पायसं दक्षिणायने ॥ 12 ॥

  13. आजेन वापि लौहेन मघास्व एव यतव्रतः हस्तिच छायासु विधिवत कर्ण वयजनवीजितम ॥ 13 ॥

  14. एष्टव्या बहवः पुत्रा यद्य एकॊ ऽपि गयां वरजेत यत्रासौ परथितॊ लॊकेष्व अक्षय्य करणॊ वटः ॥ 14 ॥

  15. आपॊ मूलं फलं मांसम अन्नं वापि पितृक्षये यत किं चिन मधु संमिश्रं तद आनन्त्याय कल्पते ॥ 15 ॥

Reach this point to mark the section finished.

Continue to अध्याय 89

Previous: अध्याय 87