धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 22

  1. [वैषम्पायन] तस्मिन वाक्यान्तरे वाक्यं पुनर एवार्जुनॊ ऽबरवीत विषण्णमनसं जयेष्ठम इदं भरातरम ईश्वरम ॥ 1 ॥

  2. कषत्रधर्मेण धर्मज्ञ पराप्य राज्यम अनुत्तमम जित्वा चारीन नरश्रेष्ठ तप्यते किं भवान भृशम ॥ 2 ॥

  3. कषत्रियाणां महाराज संग्रामे निधनं समृतम विशिष्टं बहुभिर यज्ञैः कषत्रधर्मम अनुस्मर ॥ 3 ॥

  4. बराह्मणानां तपस तयागः परेत्य धर्मविधिः समृतः कषत्रियाणां च विहितं संग्रामे निधनं विभॊ ॥ 4 ॥

  5. कषत्रधर्मॊ महारौद्रः शस्त्रनित्य इति समृतः वधश च भरतश्रेष्ठ काले शस्त्रेण संयुगे ॥ 5 ॥

  6. बराह्मणस्यापि चेद राजन कषत्रधर्मेण तिष्ठतः परशस्तं जीवितं लॊके कषत्रं हि बरह्म संस्थितम ॥ 6 ॥

  7. न तयागॊ न पुनर याच्ञा न तपॊ मनुजेश्वर कषत्रियस्य विधीयन्ते न परस्वॊपजीवनम ॥ 7 ॥

  8. स भवान सर्वधर्मज्ञः सर्वात्मा भरतर्षभ राजा मनीषी निपुणॊ लॊके दृष्टपरावरः ॥ 8 ॥

  9. तयक्त्वा संतापजं शॊकं दंशितॊ भव कर्मणि कषत्रियस्य विशेषेण हृदयं वज्रसंहतम ॥ 9 ॥

  10. जित्वारीन कषत्रधर्मेण पराप्य राज्यम अकण्टकम विजितात्मा मनुष्येन्द्र यज्ञदानपरॊ भव ॥ 10 ॥

  11. इन्द्रॊ वै बरह्मणः पुत्रः कर्मणा कषत्रियॊ ऽभवत जञातीनां पापवृत्तीनां जघान नवतीर नव ॥ 11 ॥

  12. तच चास्य कर्म पूज्यं हि परशस्यं च विशां पते तेन चेन्द्रत्वम आपेदे देवानाम इति नः शरुतम ॥ 12 ॥

  13. स तवं यज्ञैर महाराज यजस्व बहु दक्षिणैः यथैवेन्द्रॊ मनुष्येन्द्र चिराय विगतज्वरः ॥ 13 ॥

  14. मा तवम एवंगते किं चित कषत्रियर्षभ शॊचिथाः गतास ते कषत्रधर्मेण शस्त्रपूताः परां गतिम ॥ 14 ॥

  15. भवितव्यं तथा तच च यद्वृत्तं भरतर्षभ दिष्टं हि राजशार्दूल न शक्यम अतिवर्तितुम ॥ 15 ॥

Reach this point to mark the section finished.

Continue to अध्याय 23

Previous: अध्याय 21