अ॒पो दि॒व्या अ॑चायिषं॒ रसे॑न॒ सम॑पृक्ष्महि । पय॑स्वानग्न॒ आग॑मं॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥ १ ॥
सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा । वि॒द्युर्मे॑ अ॒स्य दे॒वा इन्द्रो॑ विद्यात् सह ऋषि॑भिः ॥ २ ॥
इ॒दमा॑पः॒ प्र व॑हताव॒द्यं च॒ मलं॑ च॒ यत्। यच्चा॑भिदु॒द्रोहानृ॑तं॒ यच्च॑ शे॒पे अ॒भीरु॑णम् ॥ ३ ॥
एधो॑ऽस्येधिषी॒य स॒मिद॑सि॒ समे॑धिषीय । तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि ॥ ४ ॥
काण्ड 7
सूक्त 89
Reach this point to mark the section finished.
Continue to सूक्त 90