धर्मDharmic Data

काण्ड 7

सूक्त 57

  1. यदा॒शसा॒ वद॑तो मे विचुक्षु॒भे यद् याच॑मानस्य॒ चर॑तो॒ जनाँ॒ अनु॑ । यदा॒त्मनि॑ त॒न्वोऽमे॒ विरि॑ष्टं॒ सर॑स्वती॒ तदा पृ॑णद् घृ॒तेन॑ ॥ १ ॥

  2. स॒प्त क्ष॑रन्ति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒ अप्य॑वीवृतन्नृ॒तानि॑ । उ॒भे इद॑स्यो॒भे अ॑स्य राजत उ॒भे य॑तेते उ॒भे अस्य पुष्यतः ॥ २ ॥

Reach this point to mark the section finished.

Continue to सूक्त 58

Previous: सूक्त 56