धर्मDharmic Data

काण्ड 7

सूक्त 42

  1. सोमा॑रुद्रा॒ वि वृ॑हतं॒ विषू॑ची॒ममी॑ वा॒ या नो॒ गय॑मावि॒वेश॑ । बाधे॑थां दू॒रं निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुक्तम॒स्मत् ॥ १ ॥

  2. सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मद् विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम्। अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस॑त् त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥ २ ॥

Reach this point to mark the section finished.

Continue to सूक्त 43

Previous: सूक्त 41