यस्य॑ व्र॒तं प॒शवो॒ यन्ति॒ सर्वे॒ यस्य॑ व्र॒त उ॑प॒तिष्ठ॑न्त॒ आपः॑ । यस्य॑ व्र॒ते पु॑ष्ट॒पति॒र्निवि॑ष्ट॒स्तं सर॑स्वन्त॒मव॑से हवामहे ॥ १ ॥
आ प्र॒त्यञ्चं॑ दा॒शुषे॑ दा॒श्वंसं॒ सर॑स्वन्तं पुष्ट॒पतिं॑ रयि॒ष्ठाम्। रा॒यस्पोषं॑ श्रव॒स्युं वसा॑ना इ॒ह हुवेम॒ सद॑नं रयी॒णाम् ॥ २ ॥
काण्ड 7
सूक्त 40
Reach this point to mark the section finished.
Continue to सूक्त 41