आ ते॑ ददे व॒क्षणा॑भ्य॒ आ ते॒ऽहं हृद॑याद् ददे । आ ते॒ मुख॑स्य॒ सङ्का॑शा॒त् सर्वं॑ ते॒ वर्च॒ आ द॑दे ॥ १ ॥
प्रेतो य॑न्तु॒ व्याऽध्यः॒ प्रानु॒ध्याः प्रो अश॑स्तयः । अ॒ग्नी र॑क्ष॒स्विनी॑र्हन्तु॒ सोमो॑ हन्तु दुरस्य॒तीः ॥ २ ॥
काण्ड 7
सूक्त 114
Reach this point to mark the section finished.
Continue to सूक्त 115