यथा॑सि॒तः प्र॒थय॑ते॒ वशाँ॒ अनु॒ वपूं॑षि कृ॒ण्वन्नसु॑रस्य मा॒यया॑ । ए॒वा ते॒ शेपः॒ सह॑सा॒यम॒र्कोऽङ्गे॒नाङ्गं॒ संस॑मकं कृणोतु ॥ १ ॥
यथा॒ पस॑स्तायाद॒रं वाते॑न स्थूल॒भं कृ॒तम्। याव॒त् पर॑स्वतः॒ पस॒स्ताव॒त् ते वर्धतां॒ पसः॑ ॥ २ ॥
या॒व॒द॒ङ्गीनं॒ पार॑स्वतं॒ हास्ति॑नं॒ गार्द॑भं च॒ यत्। याव॒दश्वस्य वा॒जिन॒स्ताव॑त् ते वर्धतां॒ पसः॑ ॥ ३ ॥
काण्ड 6
सूक्त 72
Reach this point to mark the section finished.
Continue to सूक्त 73