निर्ह॑स्तः शत्रु॑रभि॒दास॑न्नस्तु॒ ये सेना॑भि॒र्युध॑मा॒यन्त्य॒स्मान्। सम॑र्पयेन्द्र मह॒ता व॒धेन॒ द्रात्वे॑षामघहा॒रो विवि॑द्धः ॥ १ ॥
आ॒त॒न्वा॒ना आ॒यच्छ॒न्तोऽस्य॑न्तो॒ ये च॒ धाव॑थ । निर्ह॑स्ताः शत्रवः स्थ॒नेन्द्रो॑ वोऽद्य परा॑शरीत् ॥ २ ॥
निर्ह॑स्ताः सन्तु॒ शत्र॒वोऽङ्गै॑षां म्लापयामसि । अथै॑षामिन्द्र॒ वेदां॑सि शत॒शो वि भ॑जामहै ॥ ३ ॥
काण्ड 6
सूक्त 66
Reach this point to mark the section finished.
Continue to सूक्त 67