यो॒३स्मा॑न् ब्र॑ह्मणस्प॒तेऽदे॑वो अभि॒मन्य॑ते । सर्वं॒ तं र॑न्धयासि मे॒ यज॑मानाय सुन्व॒ते॑ ॥ १ ॥
यो नः॑ सोम सुशं॒सिनो॑ दुः॒शंस॑ आ॒दिदे॑शति । वज्रे॑णास्य॒ मुखे॑ जहि॒ स संपि॑ष्टो॒ अपा॑यति ॥ २ ॥
यो नः॑ सोमाभि॒दास॑ति॒ सना॑भि॒र्यश्च॒ निष्ट्यः॑ । अप॒ तस्य॒ बलं॑ तिर म॒हीव॒ द्यौर्व॑ध॒त्मना॑ ॥ ३ ॥
काण्ड 6
सूक्त 6
Reach this point to mark the section finished.
Continue to सूक्त 7