धर्मDharmic Data

काण्ड 6

सूक्त 51

  1. वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ् सोमो॒ अति॑ द्रु॒तः । इन्द्र॑स्य॒ युजः॒ सखा॑ ॥ १ ॥

  2. आपो॑ अ॒स्मान् मा॒तरः॑ सूदयन्तु घृ॒तेन॑ नो घृ॒तप्वः पुनन्तु । विश्वं॒ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि ॥ २ ॥

  3. यत् किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या॒३श्चर॑न्ति । अचि॑त्त्या॒ चेत् तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥ ३ ॥

Reach this point to mark the section finished.

Continue to सूक्त 52

Previous: सूक्त 50