धर्मDharmic Data

काण्ड 6

सूक्त 43

  1. अ॒यं द॒र्भो विम॑न्युकः॒ स्वाय॒ चार॑णाय च । म॒न्योर्विम॑न्युकस्या॒यं म॑न्यु॒शम॑न उच्यते ॥ १ ॥

  2. अ॒यं यो भूरि॑मूलः समु॒द्रम॑व॒तिष्ठ॑ति । द॒र्भः पृ॑थि॒व्या उत्थि॑तो मन्यु॒शम॑न उच्यते ॥ २ ॥

  3. वि ते॑ हन॒व्यां श॒रणिं॒ वि ते॒ मुख्यां॑ नयामसि । यथा॑व॒शो न वादि॑षो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥ ३ ॥

Reach this point to mark the section finished.

Continue to सूक्त 44

Previous: सूक्त 42