वै॒श्वा॒न॒रो न॑ ऊ॒तय॒ आ प्र या॑तु परा॒वतः॑ । अ॒ग्निर्नः॑ सुष्टु॒तीरुप॑ ॥ १ ॥
वै॒श्वा॒न॒रो न आग॑मदि॒मं य॒ज्ञं स॒जूरुप॑ । अ॒ग्निरु॒क्थेष्वंह॑सु ॥ २ ॥
वै॒श्वा॒न॒रोऽङ्गि॑रसां॒ स्तोम॑मु॒क्थं च॑ चाक्लृपत्। ऐषु॑ द्यु॒म्नं स्वऽर्यमत् ॥ ३ ॥
काण्ड 6
सूक्त 35
Reach this point to mark the section finished.
Continue to सूक्त 36