यस्ये॒दमा रजो॒ युज॑स्तु॒जे जना॒ वनं॒ स्वः । इन्द्र॑स्य॒ रन्त्यं॑ बृ॒हत् ॥ १ ॥
नाधृ॑ष॒ आ द॑धृषते धृषा॒णो धृ॑षि॒तः शवः॑ । पु॒रा यथा॑ व्य॒थिः श्रव॒ इन्द्र॑स्य॒ नाधृ॑षे॒ शवः॑ ॥ २ ॥
स नो॑ ददातु॒ तां र॒यिमु॒रुं पि॒शङ्ग॑संदृशम्। इन्द्रः॒ पति॑स्तु॒विष्ट॑मो॒ जने॒ष्वा ॥ ३ ॥
काण्ड 6
सूक्त 33
Reach this point to mark the section finished.
Continue to सूक्त 34