धर्मDharmic Data

काण्ड 6

सूक्त 22

  1. कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत् प॑तन्ति । त आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद् घृ॒तेन॑ पृथि॒वीं व्यूऽदुः ॥ १ ॥

  2. पय॑स्वतीः कृणुथा॒प ओष॑धीः शि॒वा यदेज॑था मरुतो रुक्मवक्षसः । ऊर्जं॑ च॒ तत्र॑ सुम॒तिं च॑ पिन्वत॒ यत्रा॑ नरो मरुतः सि॒ञ्चथा॒ मधु॑ ॥ २ ॥

  3. उ॒द॒प्रुतो॑ म॒रुत॒स्तां इ॑यर्त वृ॒ष्टिर्या विश्वा॑ नि॒वत॑स्पृ॒णाति॑ । एजा॑ति॒ ग्लहा॑ क॒न्येऽव तु॒न्नैरुं॑ तुन्दा॒ना पत्ये॑व जा॒या ॥ ३ ॥

Reach this point to mark the section finished.

Continue to सूक्त 23

Previous: सूक्त 21