इन्द्रा॑य॒ सोम॑मृत्विजः सु॒नोता च॑ धावत । स्तो॒तुर्यो वचः॑ शृ॒णव॒द्धवं॑ च मे ॥ १ ॥
आ यं वि॒शन्तीन्द॑वो॒ वयो॒ न वृ॒क्षमन्ध॑सः । विर॑प्शि॒न् विमृधो॑ जहि रक्ष॒स्विनीः॑ ॥ २ ॥
सु॒नोता॑ सोम॒पाव्ने॑ सोम॒मिन्द्रा॑य व॒ज्रिणे॑ । युवा॒ जेतेशा॑नः॒ स पु॑रुष्टु॒तः ॥ ३ ॥
काण्ड 6
सूक्त 2
Reach this point to mark the section finished.
Continue to सूक्त 3