धर्मDharmic Data

काण्ड 6

सूक्त 140

  1. यौ व्या॒घ्रवव॑रूढौ जिघ॑त्सतः पि॒तरं॑ मा॒तरं॑ च । यौ दन्तौ ब्रह्मणस्पते शि॒वौ कृ॑णु जातवेदः ॥ १ ॥

  2. व्री॒हिम॑त्तं॒ यव॑मत्त॒मथो॒ माष॒मथो॒ तिल॑म्। ए॒ष वां॑ भा॒गो निहि॑तो रत्न॒धेया॑य दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ॥ २ ॥

  3. उप॑हूतौ स॒युजौ॑ स्यो॒नौ दन्तौ॑ सुम॒ङ्गलौ॑ । अ॒न्यत्र॑ वां घो॒रं त॒न्वः॑१ परै॑तु दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ॥ ३ ॥

Reach this point to mark the section finished.

Continue to सूक्त 141

Previous: सूक्त 139