धर्मDharmic Data

काण्ड 6

सूक्त 137

  1. यां ज॒मद॑ग्नि॒रख॑नद् दुहि॒त्रे के॑श॒वर्ध॑नीम्। तां वी॒तह॑व्य॒ आभ॑र॒दसि॑तस्य गृ॒हेभ्यः॑ ॥ १ ॥

  2. अ॒भीशु॑ना॒ मेया॑ आसन् व्या॒मेना॑नु॒मेयाः॑ । केशा॑ न॒डा इ॑व वर्धन्तां शी॒र्ष्णस्ते॑ असि॒ताः परि॑ ॥ २ ॥

  3. दृंह॑ मूल॒माग्रं॑ यच्छ॒ वि मध्यं॑ यामयौषधे । केशा॑ न॒डा इ॑व वर्धन्तां शी॒र्ष्णस्ते॑ असि॒ताः परि॑ ॥ ३ ॥

Reach this point to mark the section finished.

Continue to सूक्त 138

Previous: सूक्त 136