धर्मDharmic Data

काण्ड 6

सूक्त 119

  1. यददी॑व्यन्नृ॒णम॒हं कृ॒णोम्यदा॑स्यन्नग्न उ॒त सं॑गृ॒णामि॑ । वै॒श्वा॒न॒रो नो॑ अधि॒पा वसि॑ष्ठ॒ उदिन्न॑याति सुकृ॒तस्य॑ लो॒कम् ॥ १ ॥

  2. वै॒श्वा॒न॒राय॒ प्रति॑ वेदयामि॒ यद्यृ॒णं सं॑ग॒रो दे॒वता॑सु । स ए॒तान् पाशा॑न् वि॒चृतं॑ वेद॒ सर्वा॒नथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ॥ २ ॥

  3. वै॒श्वा॒न॒रः प॑वि॒ता मा॑ पुनातु॒ यत् सं॑ग॒रम॑भि॒धावा॑म्या॒शाम्। अना॑जान॒न् मन॑सा॒ याच॑मानो॒ यत् तत्रैनो॒ अप॒ तत् सु॑वामि ॥ ३ ॥

Reach this point to mark the section finished.

Continue to सूक्त 120

Previous: सूक्त 118