धर्मDharmic Data

काण्ड 6

सूक्त 111

  1. इ॒मं मे॑ अग्ने॒ पुरु॑षं मुमुग्ध्य॒यं यो ब॒द्धः सुय॑तो॒ लाल॑पीति । अतोऽधि॑ ते कृणवद् भाग॒धेयं॑ य॒दानु॑न्मदि॒तोऽस॑ति ॥ १ ॥

  2. अ॒ग्निष्टे॒ नि श॑मयतु॒ यदि॑ ते॒ मन॒ उद्यु॑तम्। कृ॒णोमि॑ वि॒द्वान् भे॑ष॒जं यदानु॑न्मदि॒तोऽस॑सि ॥ २ ॥

  3. दे॒वै॒न॒सादुन्म॑दित॒मुन्म॑त्तं॒ रक्ष॑स॒स्परि॑ । कृ॒णोमि॑ वि॒द्वान् भे॑ष॒जं यदानु॑न्मदि॒तोऽस॑ति ॥ ३ ॥

  4. पुन॑स्त्वा दुरप्स॒रसः॒ पुन॒रिन्द्रः॒ पुन॒र्भगः॑ । पुन॑स्त्वा दु॒र्विश्वे॑ दे॒वा यथानु॑न्मदि॒तोऽस॑सि ॥ ४ ॥

Reach this point to mark the section finished.

Continue to सूक्त 112

Previous: सूक्त 110