आय॑ने ते प॒राय॑णे दूर्वा॑ रोहतु पु॒ष्पिणीः॑ । उत्सो॑ वा॒ तत्र॒ जाय॑तां ह्रदो वा॑ पु॒ण्डरी॑कवान् ॥ १ ॥
अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम्। मध्ये॑ ह्र॒दस्य॑ नो गृ॒हाः प॑रा॒चीना॒ मुखा॑ कृधि ॥ २ ॥
हि॒मस्य॑ त्वा ज॒रायु॑णा॒ शाले॒ परि॑ व्ययामसि । शी॒तह्र॑दा॒ हि नो॒ भुवो॒ऽग्निष्कृ॑णोतु भेष॒जम् ॥ ३ ॥
काण्ड 6
सूक्त 106
Reach this point to mark the section finished.
Continue to सूक्त 107