धर्मDharmic Data

काण्ड 5

सूक्त 8

  1. वै॒क॒ङ्क॒तेने॒ध्मेन॑ दे॒वेभ्य॒ आज्यं॑ वह । अग्ने॒ ताँ इ॒ह मा॑दय॒ सर्व॑ आ य॑न्तु मे॒ हव॑म् ॥ १ ॥

  2. इन्द्रा या॑हि मे॒ हव॑मि॒दं क॑रिष्यामि॒ तच्छृ॑णु । इ॒म ऐ॒न्द्रा अ॑तिस॒रा आकू॑तिं॒ सं न॑मन्तु मे । तेभिः॑ शकेम वी॒र्यं१ जात॑वेद॒स्तनू॑वशिन् ॥ २ ॥

  3. यद॒साव॒मुतो॑ देवा अदे॒वः संश्चिकी॑र्षति । मा तस्या॒ग्निर्ह॒व्यं वा॑क्षी॒द्धवं॑ दे॒वा अ॑स्य॒ मोप॑ गु॒र्ममै॒व हव॒मेत॑न ॥ ३ ॥

  4. अति॑ धावतातिसरा॒ इन्द्र॑स्य॒ वच॑सा हत । अविं॒ वृक॑ इव मथ्नीत॒ स वो॒ जीव॒न्मा मो॑चि प्रा॒णम॒स्यापि॑ नह्यत ॥ ४ ॥

  5. यम॒मी पु॑रोदधि॒रे ब्र॒ह्माण॒मप॑भूतये । इन्द्र॒ स ते॑ अधस्प॒दं तं प्रत्य॑स्यामि मृ॒त्यवे॑ ॥ ५ ॥

  6. यदि॑ प्रे॒युर्देव॑पु॒रा ब्रह्म॒ वर्मा॑णि चक्रि॒रे। त॒नू॒पानं॑ परि॒पाणं॑ कृण्वा॒ना यदु॑पोचि॒रे सर्वं॒ तद॑र॒सं कृ॑धि ॥ ६ ॥

  7. यान॒साव॑तिस॒रांश्च॒कार॑ कृ॒णव॑च्च॒ यान्। त्वं तानि॑न्द्र वृत्रहन् प्र॒तीचः॒ पुन॒रा कृ॑धि॒ यथा॒मुं तृ॒णहां॒ जन॑म् ॥ ७ ॥

  8. यथेन्द्र॑ उ॒द्वाच॑नं ल॒ब्ध्वा च॒क्रे अ॑धस्प॒दम्। कृ॒ण्वे॒३ऽहमध॑रां॒स्तथा॒मूञ्छ॑श्व॒तीभ्यः॒ समा॑भ्यः ॥ ८ ॥

  9. अत्रै॑नानिन्द्र वृत्रहन्नु॒ग्रो मर्म॑णि विध्य । अत्रै॒वैना॑न॒भि ति॒ष्ठेन्द्र मे॒द्य॑१हं तव॑ । अनु॑ त्वे॒न्द्रा र॑भामहे॒ स्याम॑ सुम॒तौ तव॑ ॥ ९ ॥

Reach this point to mark the section finished.

Continue to सूक्त 9

Previous: सूक्त 7